________________ प्रविशतोर्बहिर्निगच्छतोश्च मण्डलानां परस्परमन्तरं ज्ञेयम् / तत्र रव्यो पञ्चषष्टिमण्डलानि जम्बूद्वीपे | तत्रापि द्वाषष्टिर्निषधपर्वते त्रीणि च तस्य बाहायाम्,00 इदं तु श्रीमुनिचन्द्रसूरिभिरुक्तम् / समवायाङ्गवृत्तौ त्रिषष्टिस्थाने-''जम्बूद्वीपस्य पर्यन्तिमेऽशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति , तत्र निषधपर्वते नीलवत्पर्वते च त्रिषष्टिः सूर्योदयाः सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्यां , शेषाणि तु लवणे' इत्युक्तमस्ति ! सङ्ग्रहणीवृत्तादावपि - 'त्रिषष्टित्रिषष्टिमण्डलानि निषधनीलवतो:, द्वे द्वे हरिवर्षकोट्यादौ / ' ततस्तत्त्वं सर्वविद्वेद्यम् / / 11 / / तथा चंदा० / चन्द्रयोर्निषधनीलवन्तपर्वत एव पञ्च मण्डलानि गुरुपदेशे दृश्यन्ते, शेषाणि मण्डलानि द्वयोरपि जलधौ 119 सूर्यस्य दश 10 चन्द्रस्य च भवन्ति / तत्राप्ययं विशेष :-1-2-3-4-5-11-12-13-14-15 एतानि चन्द्रमण्डलानि सूर्यस्यापि साधारणानि / षष्ठ 6, सप्तम 7, अष्टम 8, नवम 9, दशम 10 रुपाणि पुनश्चन्द्रस्यैव भवन्ति, न जातुचिदपि तेषु सूर्यः समायाति / चन्द्रस्य 15 मण्डलानामन्तराणि चतुर्दश भवन्ति / तत्र चतुर्ष सर्वाभ्यन्तरेषु चतुषु सर्वबाह्यमण्डलान्तरेषु च सूर्यस्य प्रत्येकं द्वादश मण्डलानि भवन्ति। मध्यवर्तिषु षट्सु चन्द्रमण्डलान्तरेषु सूर्यमण्डलानि त्रयोदश भवन्ति / / 12 / / अथ मण्डलनिष्पत्तिस्वरुपमाह रविदुगभमणवसाओ, निप्फज्जइ मंडलं इहं एगं / तं पुण मंडलसरिसं, ति मंडलं वुच्चइ तहाहि / / 13 / / रविदु० / रविद्विकभ्रमणवशान्निष्पद्यते मण्डलमिहै कम् / तत्पुनर्वृत्ताकारतया मण्डलसदृशमिति हेतोर्व्यवहारेण मण्डलमुच्यते न तु निश्चयेन / तथाहीति साक्षाद्दर्शने ||13 / / तमेवार्थं गाथाद्वयेनाह गिरिनिसढनीलवंतेसु उग्गयाणं रवीण कक्कम्मि | पढमाउ चेव समया, ओसरणेणं जओ भमणं / / 14 / / तो नो निच्छयरुवं, निप्फज्जइ मंडलं दिणयराणं / चंदाण वि एवं चिअ, निच्छयओ मंडलाभावो ||15 / / गिरिनि० निषधनीलवन्नाम्नोर्गिर्योरुपर्युद्गतयो रव्यो : 'कर्के' कर्कसंक्रान्तिप्रथम-दिने प्रथमसमयादेवारभ्य शनैश्शनैरपसरणेन यतः, कारणाभ्रमणम् / / 14 / / तो नो० / 'तो' इति ततः कारणात् निश्चयरुपं