________________ तथाहि-सूर्यस्य चतुरशीत्यधिकं शतं मण्डलानाम् अन्तराणि त्र्यशीत्यधिकं ? शतम् 183, एषां विष्कम्भमानं हे द्वे योजने , ते च त्र्यशीत्यधिकशतेन गुण्येते जातानि षट्पष्टयधिकानि त्रीणिशतानि 366 / रो चा सूर्यसम्बन्धिनोऽष्टचत्वारिंशदेकषष्टिभागाः, ते चतुरशीत्यधिकेन शतेन गण्यन्ते जातान्यष्टाशीतिशतानि द्वात्रिंशदधिकानि 8832, तेषां योजनानयनार्थं एकषष्ट्या भागे हृते लब्धां चतुश्चत्वारिंशं योजनशतं , शेषा अष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य 144 48 . एतत्पूर्वराशौ क्षिप्तं जातं च यथोक्तमानम् 51038 / चन्द्रस्य तु मण्डलविष्कम्भः षट्पञ्चाशदेकषष्टिः भागा योजनस्य , ते 16 पञ्चदशगुणिता जाताः 840, तेषां योजनानयनार्थमेकषष्टिभागहरणे लब्धाः 13 शेषाः 47 स्थिताः / मण्डलान्तराणां च प्रत्येकं विष्कम्भमानं पञ्चत्रिंशद्योजनानि त्रिशदेकषष्टिभागा योजनस्यैकस्यैकष्टि भागस्य च सप्तधा छिन्नास्य चत्वारो भागा: 35 304 पश्चत्रिंशच्चतुर्दशगुणिता जातानि 490 योजनानि , त्रिंशद्भागाश्चतुर्दशगुणिता जाताः 420, सप्तधा छिन्नस्य चत्वारो भागाश्चतुर्दशगुणिता जाताः षट्पञ्चाशत्, ते सातभिर्हता लब्धा अष्टावेकषष्टिभागाः, ते च चतुश्शतविंशतौ क्षिप्ता जाता: 428 ते एकषष्ट्या हृता लब्धानि योजनानि सप्त शेष एक एकषष्टिभाग : स्थितः 7. पूर्वोक्तानि योजनानि 13 तथा 490 तथा 7, सर्वेषां मीलने जातानि योजनानि 510, शेषभागाः 1 तथा 47, उभयोर्मीलने स्थिता इति / इदं चारक्षेत्रचक्रवालविष्कम्भमानम् / / 10 / / अथ कति मण्डलानि दीपे कति च निषधे लवणे च कति सूर्यचन्द्रयोर्भवन्तीति गाथाद्वयेनाह संततमंतरमेअं, रवीण पणसट्ठिमंडला दीवे / तत्थ बिसट्ठी निसढे, तिन्नि अ बाहाइ तस्सेव ||11|| चंदाणं निसढे वि अ, मंडल पण गुरुवएसि दीसति / सेसाई मंडलाइं, दोण्ह वि जलहिस्स मज्झम्मि ||12 / / संतत० / 'संततं' सर्वकालं 'एतत्' पूर्वोक्तं सूर्ययोश्चन्द्रयोश्च मध्ये