________________ "दीवे असिइसयं जोअणाण तीसहिअ तिन्नि सय लवणे। खित्तं पणसयदसहिअ, भागा अडयाल इगसट्ठा ||8|| दीवे० / 'द्वीपे' जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च 'क्षेत्रं' चारक्षेत्रंविष्कम्भतो ऽशीत्यधिकं शतं 180 योजनानाम् , लवणे च त्रिंशदधिकानि त्रीणि शतानि योजनानां 330, उभयोमर्मीलने दशाधिकानि पञ्चशतानि योजनानामष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य 510 नक्षत्राणामपि चारक्षेत्रमेतदेव , सर्वाभ्यन्तरसर्वबाह्यमण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालस्योक्तत्वात् / ग्रहाणां तारकाणां च चारक्षेत्रविष्कम्भमानं व्यक्त्या शास्त्रेषु नोपलभ्यत इति / ||8|| अथ जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च संख्याज्ञापनपूर्वकं प्रत्येकं कति मण्डलानि भवन्तीत्याह इह दीवे दुन्नि रवी, दुन्नि अ चंदा सया पयासंति / चुलसीसयमेगेसिं, मंडलमन्नेसि पन्नरस / / 9 / / इह दिवे० / 'इह' अस्मिन् जम्बूद्वीपे द्वौ सूर्यौ द्वौ चन्द्रौ सदा प्रकाश्यतः / तत्र 'एगेसिं' ति प्रथमोद्दिष्टयो रव्योश्चतुरशीत्यधिकं शतं मण्डलानि भवन्ति / 'अन्नेसिं' ति पश्चादुद्दिष्टयोश्चन्द्रयोः पञ्चदश संख्याकानि भवन्ति / नक्षत्रमण्डलानि चाष्टौ सन्ति , तत्स्वरुपं नक्षत्राधिकारे भावयिष्यते / / 9 / / अथ सूर्यमण्डलानां मिथश्चन्द्रमण्डलानां चान्तराणि कियत्प्रमाणानीत्याह दो जोअणंतराइं, सूराण ससीण पंचतीसा य / तीसमिगसट्ठिभागा, चउरो तस्सत्तभागा य ||10|| दो जोअणं० / सूर्यसम्बन्धिनां मण्डलानामन्तराणि द्वे योजने योजनद्वयप्रमाणानीत्यर्थः, एवंविधान्यन्तराणि सूर्ययोस्त्र्यशीत्यधिकशतसंख्याकानि भवन्ति / चन्द्रसम्बन्धिनां मण्डलानामन्तराणि पञ्चत्रिंशद्योजनानि त्रिंशच्चैकयोजनस्यैकषष्टिभागा एकस्यैकषष्टिभागस्य सप्तभागा: क्रियन्ते तादृशाश्चत्वारो भागाश्च 35 30, एवंविधान्यन्तराणि चन्द्रयोश्चतुर्दश / तेन जम्बूद्वीपे द्वयोः सूर्ययोश्चन्द्रयोश्च दक्षिणोत्तरायणे कुर्वतोः प्रतिदिनभ्रमिक्षेत्रलक्षणानि निजबिम्बप्रमाणविष्कम्भानि मण्डलानि यथाक्रमं सूर्ययोः 184 चन्द्रयोः पञ्चदश '15 भवन्ति / तेषां मण्डलानामन्तरालसहितानां विष्कम्भक्षेत्रमानम्-५१०३८ /