________________ अपि सप्ताशीतिग्रहा: पंक्त्या व्यवस्थिताः प्रत्येकं षट्षष्टिर्वेदितव्याः / एवमुत्तरतोऽप्यर्द्धभागे पूर्वोक्तदक्षिणपंक्ति-समश्रेणिस्थानामङ्गारकप्रभृतीनाम् / अष्टाशीतेग़हाणां पंक्तयः षट्षष्टिसङ्ख्या भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततं पंक्तिशतम् / एकैका च पंक्तिः षट्षष्टिसंख्यकेति / पुनरुक्तं जीवाभिगमे—''छावट्ठी पिडगाई, चंदाइच्चाण मणुअलोगम्मि / दो चंदा दो सूरा , य होंति इक्किक्कए पिडए / / 1 / / छावट्ठी पिडगाइं, नक्खत्ताणं तु मणुअलोगम्मि / छप्पण्णं नक्खत्ता, होंति इक्किक्कए पिडए ||2|| छावट्ठी पिडगाई, महागहाणं तु मणुअलोगम्मि / छावत्तरं गहसयं, होइ उ इक्किक्कए पिडए / / 2 / / 'पिटकानि' इति, अत्र चन्द्रादित्यचतुष्कं सपरिवारं पिटकाकारं पिटकमुच्यते, अयमर्थो हारिभद्र्यां जीवाभिगमलघुवृत्तौ / किञ्चात्र प्रथमं नक्षत्रगाथा नक्षत्राणां चन्द्रादिभोग्यत्वेनोक्ता, ग्रहा न चन्द्रादिभोग्या इति ज्ञापनाय व्युत्क्रमः ||6 / / अथैतेषां चन्द्रादीनां भ्रमणस्वरुपमाह ते मेरु पडिअडंता, पयाहिणावत्तमंडला सव्वे / अणवडिअजोगेहि, चंदा सूरा गहगणा य ||7|| ते मेरु० / 'ते' पूर्वोक्ता नरलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्या : सर्वे ग्रहगणा: सर्वाणि नक्षत्राणि ध्रुवादिवर्जं सर्वे तारकाश्च जम्बूद्वीपगतमम्मेव मेरुमनुलक्षीकृत्य प्रदक्षिणावर्त्तमण्डलाः सन्तो नित्यमहोरात्रं परिभ्रमन्ति, न तु क्षणमात्रं क्वापि कदापि तिष्ठन्ति। गाथोत्तरार्द्धन विशेषमाह- 'अणवट्टिअ' त्ति | चन्द्राः सूर्या ग्रहगणाश्च 'अनवस्थितयोगै:' प्रतिदिनं पृथक् पृथक् मण्डलैः परिभ्र मन्ति, तेन चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात् / चकारान्नक्षत्रतारकाणां मण्डलान्यवस्थितानि ज्ञेयानि, प्रतिदिनं तेष्वेव निजनिजमण्डलेषु संचरणात् | तथा ध्रुवपार्श्ववर्त्तिनस्तारा ध्रुवमेव परिवर्त्तयन्ति न मेरुम् / ध्रुवाश्चत्वारो जम्बूद्वीपे ज्ञेयाः ; यदुक्तं "नमिऊण सजल'' अभिधलघुक्षेत्रसमासप्रान्तगाथाया वृत्तौ श्रीहरिभद्रसूरिभिर्यथा-"इह मेरोश्चतुर्दिशं चत्वारो ध्रुवतारा मन्तव्याः, तत्परिवारतारकास्तु तेषामेव तारकाणां चतुर्णां समन्तात्परिभ्रमन्ति न तु मेरोः प्रादक्षिण्येन'' इति / / 7 / / अथ जम्बूद्वीपे चन्द्रादीनां चारक्षेत्रविष्कम्भमानमाह 1. द्वौ चन्द्रमसौ द्वावादित्यौ इतिरूपम् न तु चन्द्रचतुष्कमादित्यचतुष्कमिति /