________________ छप्पन्न० / नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया षट्पञ्चाशत्पङ्कयो भवन्ति / 2 एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिनक्षत्रपरिमाणा इत्यर्थः / तथाहि-किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्याकानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति / उत्तरतोऽप्यर्द्धभागे द्वितीयस्य शशिनः परिवारभूतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति / उत्तरतोऽप्यर्द्धभागे द्वितीयस्य शशिनः परिवारभूतान्यष्टाविंशतिसंख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि / तत्र दक्षिणतोऽर्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्धे इति सर्वसङ्ख्यया षट्षष्टिरभिजिन्नक्षत्राणि पंक्त्या व्यवस्थितानि / एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पङ्कया व्यस्थितानि षट्षष्टिसंख्याकानि षट्षष्टिसंख्याकानि भावनीयानि / तथोत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशति: कालोदे, षट्त्रिंशदभ्यन्तरपुष्करा॰ / एवं श्रवणादीनां सर्वनक्षत्राणां पतयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसंख्यया षट्पश्चाशत्संख्या नक्षत्राणां पतयः / एकैका च पंक्तिः षट्षष्टिसङ्ख्येति / किञ्च जम्बूद्वीपे यस्मिन्दिने दिने तत्समश्रेणिस्थस्य द्वितीयस्य चन्द्रस्योत्तरार्द्धभागे तन्नामकमेव नक्षत्रं परिभोग्यं भवति / एवं सर्वस्मिन् द्वीपे समुद्रे चैकनामकनक्षत्रे एव चन्द्राः सूर्याश्च समकं भवन्ति / / 5 / / अथ ग्रहांणां पंक्तिस्वरुपमाह छावत्तरं गहाणं, पंतिसयं होइ मणुअलोगम्मि / छावट्टि अ छावट्ठि अ, होई इक्किक्किया पंती / / 6 / / छावत्तरं 0 / ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके 'षट्सप्ततं पंक्तिशतं' षट्सप्तत्यधिकं पंक्तिशतं भवति, एकैका च पंक्तिर्भवति षट्षष्टिः षट्षष्टिः / अत्रापीयं भावना-जम्बूद्वीपे दक्षिणार्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवान्येऽष्टाशीतिर्ग्रहाः / तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणि-व्यवस्थितौ दक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे, षड् धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति , एवं शेषादा 1. 'षट्सप्तति' इत्यपि / -