________________ बत्तीससयं चंदा, बत्तीससयं च सूरिआ सययं / समसेणीए सवे, माणुसखित्ते परिभमंति ||3|| बत्तीस० | द्वात्रिंशदधिकं शतं चन्द्रा द्वात्रिंशदधिकं शतं सूर्याश्च 'सततं' निरन्तरं अपेरध्याहारात्सर्वेऽपि मनुष्यलोके 'समश्रेण्या' जम्बूद्वीपगतमेरोः परितः पंक्तया परिभ्रमन्ति / / 3 / / अथ चन्द्रसूर्याणां कियन्त्यः पंक्तयः कथं च संस्थिता: ? इत्याह चत्तारि अ पंतीओ, चंदाइच्चाण मणुअलोगम्मि / छावट्ठी छावडी, होई इक्किक्किआ पंती ||4|| चत्ता० / इह मनुष्यलोके चन्द्रादित्यादीनां चतस्त्र : पंक्तयो भवन्ति ,तद्यथा-वे पंक्ती चन्द्राणां द्वे च सूर्याणामेकान्तरिते / एकैका च पंक्तिर्भवति षट्षष्टि षट्षष्टिचन्द्रसूर्यसङ्ख्या / तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्तते एक उत्तरभागे / तथा एकञ्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे / तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्तते तत्समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे एव सूर्यौ लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यां सूर्यपंक्तौ षट्षष्टिः सूर्याः / तथा यो मेरोरुत्तरभागे सूर्यश्वारं चरन् वर्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ सूर्यौ उत्तरभागे लवणसमुद्रे, षड् धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करा॰ इत्यस्यामपि सूर्यपंक्तौ सर्वसडख्यया षट्षष्टिः सूर्याः / तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्रस्तत्समश्रेणिव्यवस्थितौ पूर्वभागे द्वौ चन्द्रमसौ लवणे, षड़ धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यां चन्द्रपंक्तौ सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः / एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पंक्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः / स्थापनाऽग्रे विलोक्या / / 4 / / अथ नक्षत्राणां पंक्तिस्वरुपमाह छप्पन्नं पंतीओ, नक्खत्ताणं तु मणुअलोगम्मि | छावट्ठी छावट्ठी, होई इक्किक्किया पंती ||5||