________________ (પરિશિષ્ટ-૨ श्रीमद् विनयकुशलगणिविरचितस्वोपज्ञवृत्तिसङ्कलितं - मण्डलप्रकरणम् / श्रीमद्वीरजिनं नत्वा, नित्यानित्यार्थदेशकम् / मण्डलादिविचारस्य, कुर्वे वृत्तिं सुबोधिकाम् / / अन्यत्र ग्रन्थेषु विस्तराभिहितान् चन्द्रादिमण्डलादिविचारानवेक्ष्यात्र संक्षेपेण तद्विचाराभिधित्सया मण्डलप्रकरणाभिधानस्य ग्रन्थस्येमामाद्यां गाथामाह पणमिअ वीरजिणिंदं, भवमंडलभमणदुक्खपरिमुक्कं / चंदाइमंडलाई-विआरलवमुद्धरिस्सामि ||1|| पणमि० / श्रीवीरजिनेन्द्रं प्रणम्य' नत्वा , किंलक्षणं वीरम् ? भवमण्डलभ्रमणस्य यदु :खं तेन परिमुक्तं-रहितं , चन्द्रादिमण्डलादिविचारलेशमुद्धरिष्यामि, जीवाभिगमाद्यागमादिति शेष: / इह चन्द्रादयः पञ्चचन्द्र 1 सूर्य 2 ग्रह 3 नक्षत्र 4 तारका 5 रुपाः, ते चरादिभेदेन द्विधा / तत्र चराणां मण्डलादिस्वरुपमिह वक्ष्य इति / / 1 / / अत्र पूर्वं तावत्सार्द्धद्वीपद्वयसमुद्रद्वयगतचन्द्रसूर्याणां सङ्ख्यामाहससिरविणो दो चउरो, बार दुचत्ता बिसत्तरी अ कमा / जंबूलवणोआइसु, पंचसु ठाणेसु नायव्वा ||2|| ससिर० / शशिनो रवयश्च द्वौ चत्वारो द्वादश द्विचत्वारिंशद् द्विसप्ततिर्जम्बूप्रभृतिष्वर्धतृतीयद्वीपेषु लवणकालोदध्योः समुद्रयोश्च पञ्चसु स्थानेषु ज्ञातव्या : | भावना यथा-द्वौ चन्द्रौ-द्वौ सूर्यौ जम्बूद्वीपे, एवं चत्वारो लवणसमुद्रे, द्वादश धातकीखण्डे , द्विचत्वारिंशत्कालोदधौ , द्विसप्ततिः पुष्करार्ध इति / / 2 / / | अथ निखिले नरलोके चन्द्रसूर्याणां सर्वाग्रमाह१. आदिना स्थिरभेदो ग्राह्यः / -