________________ 72 सास्वादनस्वरूपम् राशेरेवाविहिताशुद्धार्द्धशुद्धशुद्धमिथ्यात्वमिश्रसम्यक्त्वस्वरूपत्रिपुञ्जस्योदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चाप्राप्तस्य इति, अन्तरकरणान्तर्मुहूर्त्तकालं यावत् सर्वथा मिथ्यात्वावेदकस्य अन्तरकरणौपशमिकसम्यक्त्वमेकवारमेव भवति, तथोपशमश्रेणिप्रपन्नस्य मिथ्यात्वानन्तानुबन्धिनामुपशमे सति स्वश्रेणिगतोपशमसम्यक्त्वं भवति / तथा चोच्यते - "अकयतिपुंजो ऊसर-'ईलियदवदड्डक्खनाएहिं / अन्तरकरणुवसमिओ, उवसमिओ वा ससेणिगओ // 1 // " (सम्यक्त्वस्वरूपकुलकम् 17, सम्यक्त्वस्तवः 17 ) [छाया - अकृतत्रिपुञ्ज ऊषरेलिकादवदग्धवृक्षज्ञातैः / अन्तरकरणौपशमिक, औपशमिको वा स्वश्रेणिगतः // 17 // ] तदेतद् द्विभेदमप्यौपशमिकसम्यक्त्वं सास्वादनोत्पत्तिमूलकारणमिति // 10 // अथ सास्वादनस्वरूपं पद्यद्वयेनाऽऽह - एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुबन्धिनाम् / आद्यौपशमिकसम्यक्त्व-शैलमौले: परिच्युतः // 11 // समयादावलीषट्कं, यावन्मिथ्यात्वभूतलम् / नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् // 12 // // युग्मम् // व्याख्या - औपशमिकसम्यक्त्ववानयं जीवः शान्तानन्तानुबन्धिनां मध्यादेकस्मिन्नपि = क्रोधादावुदीर्णे सति आद्यमौप 1. सम्यक्त्वस्वरूपकुलकसम्यक्त्वस्तवयोस्तु ....दवईलियदड....' इति पाठः / 2. सम्यक्त्वस्तवे तु .....नाएण' इति पाठः /