________________ द्वितीयं सास्वादनगुणस्थानकम् "मिच्छत्तमभव्वाणं, तमणाइमणंतयं मुणेयव्वं / भव्वाणं तु अणाइ-सपज्जवसियं तु मिच्छत्तं // 1 // " ( ) [छाया - मिथ्यात्वमभव्यानां, तदनाद्यनन्तकं ज्ञातव्यम् / भव्यानां त्वनादि-सपर्यवसितं तु मिथ्यात्वम् // 1 // ] इयं च स्थितिः सामान्येन मिथ्यात्वमाश्रित्य दर्शिता, यदि पुनर्मिथ्यात्वगुणस्थानस्य स्थितिर्विचार्यते तदा अभव्यानाश्रित्य साद्यनन्ता भव्यानाश्रित्य सादिसान्तेति / / तदा मिथ्यात्वगुणस्थानस्थो जीवो विंशत्युत्तरशतबन्धप्रायोग्यकर्मप्रकृतीनां मध्यात् तीर्थकृत्कर्माहारकद्वयाबन्धात्सप्तदशोत्तरशतबन्धकः, तथा द्वाविंशत्युत्तरशतोदयप्रायोग्यकर्मप्रकृतीनां मध्यात् मिश्रसम्यक्त्वाहारकद्विकतीर्थकृत्कर्मेति पञ्चप्रकृतीनामनुदयात् सप्तदशोत्तरशतवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति // 9 // // इति प्रथमं गुणस्थानम् // 1 // अथ द्वितीयसास्वादनगुणस्थानमूलकारणभूतौपशमिकसम्यक्त्वस्वरूपमाह - अनादिकालसम्भूत-मिथ्याकर्मोपशान्तितः / स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः // 10 // व्याख्या - 'जीवे' भव्यजीवविषये 'अनादिकालसम्भूतमिथ्याकर्मोपशान्तितः' अनादिकालोद्भवमिथ्यात्वकर्मोपशमाद् 'आदितो' ग्रन्थिभेदकरणकालादौपशमिकं नाम सम्यक्त्वं स्यादिति सामान्योऽर्थः / विशेषार्थस्त्वयम् - औपशमिकं सम्यक्त्वं द्विधा - एकमन्तरकरणौपशमिकम्, द्वितीयं स्वश्रेणिगतौपशमिकम् / तत्रापूर्वकरणेनैव कृतग्रन्थिभेदस्याकृतत्रिपुञ्जीकरणस्य = मिथ्यात्वकर्मपुद्गल