________________ 70 मिथ्यात्वस्य दूषणं स्थितिश्च अनन्तशः' इति वचनात् ये प्राप्तव्यक्तमिथ्यात्वबुद्धयो जीवा व्यवहारराशिवर्तिनस्त एव प्रथमगुणस्थाने लभ्यन्ते, न त्वव्यवहारराशिवर्तिनः, तेषामव्यक्तमिथ्यात्वस्यैव सद्भावादित्यदोषः // 7 // अथ मिथ्यात्वदूषणमाह - मद्यमोहाद्यथा जीवो, न जानाति हिताहितम् / धर्माधर्मों न जानाति, तथा मिथ्यात्वमोहितः // 8 // व्याख्या - 'यथा' 'जीवो' मनुष्यादिकप्राणी 'मद्यमोहाद्' मदिरोन्मादात् हितं वाऽहितं वा किमपि न जानाति', नष्टचैतन्यात्, 'तथा' 'मिथ्यात्वमोहितो' जीवो 'धर्माधर्मों' सम्यग् 'न जानाति', अज्ञानत्वात् / यदाह - "मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः / किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ? // 98 // " (योगशास्त्रान्तरश्लोकः) इति / / 8 / / अथ मिथ्यात्वस्य स्थितिमाह - अभव्याश्रितमिथ्यात्वे-उनाद्यनन्ता स्थितिर्भवेत् / सा भव्याश्रितमिथ्यात्वे-ऽनादिसान्ता पुनर्मता // 9 // व्याख्या - अभव्यजीवानाश्रित्य मिथ्यात्वे = सामान्येनाव्यक्तव्यक्तमिथ्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति, तथा सैव स्थितिभव्यजीवान् पुनराश्रित्यानादिसान्ता 'पुनर्मता' = सम्मता / यदाह -