________________ 69 मिथ्यात्वस्य गुणस्थानकत्वम् "दसविहे मिच्छत्ते पन्नत्ते, तं जहा - अधम्मे धम्मसन्ना, धम्मे अधम्मसन्ना, उम्मग्गे मग्गसन्ना, मग्गे उम्मग्गसन्ना, अजीवेसु जीवसन्ना, जीवेसु अजीवसन्ना, असाहुसु साहुसन्ना, साहुसु असाहुसन्ना, अमुत्तेसु मुत्तसन्ना, मुत्तेसु अमुत्तसन्ना" (स्थानाङ्गसूत्रम्१०/७३४) [छाया - दशविधं मिथ्यात्वं प्रज्ञप्तम्, तद्यथा - अधर्मे धर्मसञ्ज्ञा 1, धर्मे अधर्मसञ्ज्ञा 2, उन्मार्गे मार्गसञ्ज्ञा 3 मार्गे उन्मार्गसञ्ज्ञा 4, अजीवेषु जीवसञ्ज्ञा 5, जीवेषु अजीवसञ्ज्ञा 6, असाधुषु साधुसञ्ज्ञा 7, साधुषु असाधुसञ्ज्ञा 8, अमुक्तेषु मुक्तसञ्ज्ञा 9, मुक्तेषु अमुक्तसञ्ज्ञा / ] इत्येवमादिकमपि यन्मिथ्यात्वं तद्व्यक्तमेव / अपरं तु यदनादिकालं यावन्मोहनीयप्रकृतिरूपं मिथ्यात्वं सद्दर्शनरूपात्मगुणाच्छादकं जीवेन सह सदाऽविनाभावि भवति, तदव्यक्तं मिथ्यात्वमिति // 6 / / अथ मिथ्यात्वस्य गुणस्थानकत्वमाह - अनाद्यव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् / व्यक्तमिथ्यात्वधीप्राप्ति-र्गुणस्थानतयोच्यते // 7 // व्याख्या - अनादि च तदव्यक्तं च अनाद्यव्यक्तम्, तच्च तन्मिथ्यात्वं च 'अनाद्यव्यक्तमिथ्यात्वं' 'जीवे' प्राणिनि अव्यवहारराशिवर्तिनि 'सदा' सर्वदाऽप्यस्त्येव, परं व्यक्तमिथ्यात्वस्य = पूर्वोक्तस्वरूपस्य धीः = बुद्धिस्तत्प्राप्तिरेव 'गुणस्थानतयोच्यत' इति / आह - ननु 'सव्वजिअट्ठाण मिच्छे' [ छाया - सर्वजीवस्थानानि मिथ्यात्वे / ] (षडशीति (चतुर्थ ) कर्मग्रन्थः 45) इति मिथ्यादृष्टौ सर्वाण्यपि जीवस्थानानि लभ्यन्ते, तत्कथं व्यक्तमिथ्यात्वधीप्राप्तिरेव प्रथमगुणस्थानतामाप्नोति ? इति, अत्रोच्यते - 'सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा