________________ व्यक्ताव्यक्तमिथ्यात्वस्वरूपम् गुर्वधर्मेषु क्रमेण देवगुरुधर्मबुद्धिः सम्पद्यते, 'तद्व्यक्तं मिथ्यात्वं' भवति, उपलक्षणात् - "जीवाइपयत्थेसुं, जिणोवइडेसु जा असद्दहणा / सद्दहणावि अ मिच्छा, विवरीअपरूवणा जा य // 1 // संसयकरणं जं 'चिअ, जो तेसु अणायरो पयत्थेसु / तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छद्दिट्टी अ // 2 // " (षडशीतिभाष्यम् 1-2, शतकप्रकरणभाष्यम् 82-83) [छाया - जीवादिपदार्थेषु, जिनोपदिष्टेषु या अश्रद्धा / श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च // 1 // संशयकरणं यदेव, यस्तेषु अनादर: पदार्थेषु / तत् पञ्चविधं मिथ्यात्वं, तदृष्टिमिथ्यादृष्टिश्च // 2 // ] एतत्पञ्चविधमपि मिथ्यात्वं व्यक्तमेव / अथवा - "आभिग्गहिअमणाभिग्गहियं, तहाभिनिवेसिअं चेव / संसइअमणाभोगं, मिच्छत्तं पंचहा होइ // 4 // " (नवपदप्रकरणम्) [ छाया - आभिग्रहिकमनाभिग्रहिकं, तथाऽऽभिनिवेशिकमेव / सांशयिकमनाभोगिकं, मिथ्यात्वं पञ्चधा भवति // 4 // ] इत्यत्रापि यदेकमनाभोगिकमिथ्यात्वं तदव्यक्तम्, शेषमिथ्यात्वचतुष्टयं तु व्यक्तमेव / तथा - 1. षडशीतिभाष्यशतकप्रकरणभाष्ययोस्तु 'पि अ' इति पाठः /