________________ 67 चतुर्दशगुणस्थानकनामानि तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् / श्राद्धत्वं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् // 3 // सप्तमं त्वप्रमत्तं चा-पूर्वात्करणमष्टमम् / नवमं चानिवृत्त्याख्यं, दशमं सूक्ष्मलोभकम् // 4 // एकादशं शान्तमोहं, द्वादशं क्षीणमोहकम् / त्रयोदशं सयोग्याख्य-मयोग्याख्यं चतुर्दशम् // 5 // // चतुर्भिः कुलकम् // व्याख्या - इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थं गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद् गुणान्तरप्राप्तिरूपाणि स्थानानि = विश्रामधामानि चतुर्दशसङ्ख्यानि, तेषां नामानि यथा - 'प्रथम' मिथ्यात्वगुणस्थानकम् 1, 'द्वितीयं' सास्वादनगुणस्थानकम् 2, तृतीयं' मिश्रगुणस्थानकम् 3, चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् 4, ‘पञ्चमं' देशविरतिगुणस्थानकम् 5, 'षष्ठं' प्रमत्तसंयतगुणस्थानकम् 6, सप्तममप्रमत्तसंयतगुणस्थानकम् 7, अष्टममपूर्वकरणगुणस्थानकम् 8, नवममनिवृत्तिगुणस्थानकम् 9, ‘दशमं' सूक्ष्मसम्परायगुणस्थानकम् 10, एकादशमुपशान्तमोहगुणस्थानकम् 11, 'द्वादशं' क्षीणमोहगुणस्थानकम् 12, 'त्रयोदशं' सयोगिकेवलिगुणस्थानकम् 13, चतुर्दशमयोगिकेवलिगुणस्थानकम् 14 इति // 2-3-45 // अथ प्रथमं व्यक्ताव्यक्तमिथ्यात्वस्वरूपमाह - अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः / तन्मिथ्यात्वं भवेद्व्यक्त-मव्यक्तं मोहलक्षणम् // 6 // व्याख्या - 'या' स्पष्टचैतन्यानां सञिपञ्चेन्द्रियादिजीवानामदेवा