________________ मोहस्य प्राधान्यम् हास्यादि ततः षट्कं, क्षपयति तस्माच्च पुरुषवेदमपि / सज्वलनानपि हत्वा, प्राजोत्यथ वीतरागत्वम् // 261 // " (प्रशमरतिप्रकरणम्) आह - ननु हतमोहमित्यत्रोक्तम्, न ह्येकस्यैव मोहस्य घातेन जिनेश्वरत्वमुपपद्यते, किन्तु ज्ञानावरणदर्शनावरणान्तरायाणामपि घाते जिनेश्वरत्वं स्यात् तत्कथमिति, अत्रोच्यते - अष्टस्वपि कर्मसु मोहस्यैव प्राधान्यम्, यतः - "अक्खाण रसणी कम्माण, मोहणी तह वयाण बंभवयं / गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति // 320 // " (रत्नसञ्चयः) [छाया - अक्ष्णां रसना कर्मणां, मोहनीयं तथा व्रतानां ब्रह्मव्रतम् / गुप्तीनां च मनोगुप्तिः, चत्वारि दुःखेन जीयन्ते // 320 // ] मोहे हते शेषकर्माणि सुखहतान्येव, यदागमः - "जह मत्थयसूईए, हयाए हम्मए तलो / तह कम्माणि हम्मंति, मोहणिज्जे खयं गए // 1 // " [छाया - यथा मस्तकसूच्यां, हतायां हन्यते तालः / तथा कर्माणि हन्यन्ते, मोहनीये क्षयं गते // 1 // ] ततो मोहघाते शेषघातिनां घातोऽवश्यंभाव्येवेति न दोषः // 1 // अथ चतुर्दशसङ्ख्यानां गुणस्थानकानां नामान्येव श्लोकचतुष्टयेनाऽऽह - चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम् / मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् // 2 //