________________ 65 श्रीमद्रनशेखरसूरीश्वरविरचितः स्वोपज्ञवृत्तिविभूषितः गुणस्थानक्रमारोहः अहँपदं हृदि ध्यात्वा, गुणस्थानविचारिणाम् / अनुष्टुभामियं वृत्ति-लिख्यते ह्यवचूर्णिवत् / / 1 / / तत्राऽऽदौ मङ्गलार्थमभीष्टदेवतानमस्कारस्य सम्बन्धाविर्भावकमाद्यपद्यमाह - गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् / नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते // 1 // व्याख्या - यत्र यत्र पूर्वाप्राप्तगुणविशेषाविर्भावो भवति तत्तद्गुणस्थानमित्युच्यते, तानि गुणस्थानानि, तेषां स्वरूपम्, 'किञ्चिद्' = अल्पमात्रमुच्यत इति सम्बन्धः, किं कृत्वा ? 'नमस्कृत्य' प्रणिपत्य 'जिनेश्वरं' श्रीसर्वज्ञम्, कथम्भूतम् ? 'गुणस्थानक्रमारोहहतमोहं' गुणस्थानानां क्रमो गुणस्थानक्रमः, गुणस्थानक्रमेणाऽऽरोहणं गुणस्थानक्रमारोहः, गुणस्थानक्रमारोहेण = क्षपकश्रेण्यारोहलक्षणेन हतो मोहो येन स तथा तं गुणस्थानक्रमारोहहतमोहम्, क्षपक श्रेण्यारोहक्रमेणैव मोहो हन्यते, यदाह वाचकमुख्यः - "पूर्वं करोत्यनन्तानु-बन्धिनाम्नां क्षयं कषायाणाम् / मिथ्यात्वमोहगहनं, क्षपयति सम्यक्त्वमिथ्यात्वम् // 259 // सम्यक्त्वमोहनीयं, क्षपयत्यष्टावतः कषायांश्च / क्षपयति ततो नपुंसक-वेदं स्त्रीवेदमथ तस्मात् // 260 //