________________ सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथम् ? 73 शमिक सम्यक्त्वं शैलमौलिकल्पम् = गिरिशिखरतुल्यम्, ततः 'परिच्युतो' = भ्रष्टो 'यावन्मिथ्यात्वभूतलं नासादयति' मिथ्यात्वभूमिमण्डलं न प्राप्नोति तावत्समयादावलीषट्कान्तकाले सास्वादनगुणस्थानवर्ती भवति, यदाह - "उवसमअद्धाइ ठिओ, मिच्छमपत्तो तमेव गंतुमणो / सम्मं आसायन्तो, सासायणमो मुणेयव्वो // 3 // " (षडशीतिभाष्यम् ) [छाया - उपशमाद्धायां स्थितः, मिथ्यात्वमप्राप्तः तदेव गन्तुमनाः / सम्यक्त्वमास्वादयन्, सास्वादनो ज्ञातव्यः // 3 // आह - ननु व्यक्तमिथ्यात्वधीप्राप्तिरूपस्याद्यस्य मिश्रादीनां च गुणस्थानानामुत्तरोत्तरारोहणरूपाणां गुणस्थानत्वं युक्तम्, परं सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथमिति, अत्रोच्यते - मिथ्यात्वगुणस्थानमाश्रित्य सास्वादनस्याप्यूास्पदारोह एवास्ति यतो मिथ्यात्वगुणस्थानमभव्यानामपि भवति, सास्वादनं तु भव्यानामेव, भव्येष्वप्यपार्धपुद्गलपरावर्तावशेषसंसाराणामेव, यदाह - "अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं / तेसिं अवड्ढपुग्गल-परिअट्टो चेव संसारो // 53 // " (नवतत्त्वप्रकरणम्) [छाया - अन्तर्मुहूर्त्तमात्रमपि, स्पृष्टं भवेद्यैः सम्यक्त्वम् / तेषामपार्धपुद्गल-परावर्त्त एव संसारः // 53 // ] इति सास्वादनस्यापि मिथ्यात्वगुणस्थानाऽऽरोहरूपं गुणस्थानत्वं भवतीत्यदोषः / तथा सास्वादनस्थो जीवो मिथ्यात्वनरकत्रिकै केन्द्रियादिजाति