________________ 74 तृतीयं मिश्रगुणस्थानकम् चतुष्कस्थावरचतुष्कातपहुण्डसेवार्त्तनपुंसकवेदरूपषोडशप्रकृतीनां बन्धव्यवच्छेदादेकोत्तरशतबन्धकः, तथा सूक्ष्मत्रिकातपमिथ्यात्वोदयव्यवच्छेदान्नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता, तथा तीर्थकृत्सत्ताऽसम्भवात्सप्तचत्वारिंशदधिकशतसत्ताको भवति // 11-12 // // इति द्वितीयं गुणस्थानकम् // 2 // अथ तृतीयं मिश्रगुणस्थानकमाह - मिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः / यो भावोऽन्तर्मुहूर्तं स्या-त्तन्मिश्रस्थानमुच्यते // 13 // व्याख्या - दर्शनमोहनीयप्रकृतिरूपमिश्रकर्मोदयात् 'जीवे' जीवविषये यः समकालं समरूपतया सम्यक्त्वे मिथ्यात्वे च मिलितो = मिश्रितो भावोऽन्तर्मुहूर्तं यावद्भवेत्, तन्मिश्रगुणस्थानमुच्यते, यस्तु सम्यक्त्वमिथ्यात्वयोरेकतरे भावे वर्त्तते, स मिश्रगुणस्थानस्थो न भवति, यतोऽत्र मिश्रत्वमुभयभावयोरेकत्वरूपं जात्यन्तरमेव // 13 // अत्रो भयभावयोरेकत्वे जात्यन्तरसमुद्भूतिं सदृष्टान्तं श्लोकद्वयेनाऽऽह - जात्यन्तरसमुद्भूति-र्वडवाखरयोर्यथा / गुडदनोः समायोगे, रसभेदान्तरं यथा // 14 // तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः / मिश्रोऽसौ भण्यते तस्माद्, भावो जात्यन्तरात्मकः // 15 // व्याख्या - 'यथा' येन प्रकारेण 'वडवाखरयोः समायोगे' नाश्वो जायते, न रासभः, किन्तु वेसररूपा जात्यन्तरसमुद्भतिर्भवति, तथा 'गुडध्नोः ' समायोगे न गुडरसो व्यक्तो भवति, न च दधिरस:, किन्तु शिखरिणीरूपा रसभेदान्तरसमुद्भतिर्भवति, 'तथा' तेन प्रकारेण यस्य