________________ मिश्रगुणस्थानस्थो जीवो यन्न करोति धर्मद्वये = सर्वज्ञासर्वज्ञप्रणीते समबुद्धितया 'श्रद्धा जायते', स जात्यन्तरभेदात्मकमिश्रगुणस्थानस्थो भवतीति, यदाह - "जह गुडदहीणि 'महियाणि, भावसहिआणि हुंति मीसाणि / भुंजंतस्स तहोभय, तद्दिट्ठी मीसदिट्ठी य // 1 // " (षडशीतिभाष्यम् 4, शतकप्रकरणभाष्यम् 85) [ छाया - यथा गुडदधिनी मथिते, भावसहिते भवतो मिश्रे / भुञ्जानस्य तथोभयं, तदृष्टिर्मिश्रदृष्टिश्च // 1 // ] // 14-15 / / अथ मिश्रगुणस्थानस्थो जीवो यन्न करोति तदाह - आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते न वा / सदृष्टिर्वा कुदृष्टिा, भूत्वा मरणमश्नुते // 16 // व्याख्या - 'मिश्रस्थो जीवो' 'नाऽऽयुर्बध्नाति' = परभवयोग्यायुर्बन्धं न करोति, 'न' च मिश्रस्थो जीवो ‘म्रियते' = न मरणमप्याप्नोति, किन्तु 'सदृष्टिर्भूत्वा' = सम्यग्दृष्टिगुणस्थानमारुह्य म्रियते, 'वा' अथवा, कुदृष्टिभूत्वा = मिथ्यादृष्टिगुणस्थानमागत्य म्रियते, न तु मिश्रस्थ एव म्रियते, तथा मिश्रे इव क्षीणमोहे सयोगिनि च वर्त्तमानो जीवो न म्रियते, परेष्वेकादशसु मिथ्यात्वसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोहायोगिकेवलिरूपेषु गुणस्थानकेषु वर्तमानो म्रियते, तथा तेष्वेकादशसु मरणगुणस्थानकेषु मिथ्यात्वसासादनाविरतसम्यग्दृष्टिलक्षणानि त्रीणि गुणस्थानकानि जीवेन सह परभवमप्यनुयान्ति, न चापराण्यष्टौ गुणस्थानानि, यदाह - 1. षडशीतिभाष्ये तु 'विसमाइ' इति पाठः, शतकप्रकरणभाष्ये तु 'विसमाणि' इति पाठः /