________________ बद्धायुषो मिश्रस्थस्य मृतिर्गतिश्च "मीसे खीणे सजोगे, न मइ अवरेसु मरइगारससु / अविरयमिच्छदुगसम्म, परभवमणुजंति नो अट्ठ // 1 // " ( ) [छाया - मिश्रे क्षीणे सयोगिनि, न म्रियते अपरेषु म्रियते एकादशसु / अविरतमिथ्यात्वद्विकसम्यक्त्वं, परभवमनुयाति न अष्टौ // 1 // ] // 16 // अथ बद्धायुषो मिश्रस्थस्य मृति गतिं चाऽऽह - सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा / म्रियते तेन भावेन, गतिं याति तदाश्रिताम् // 17 // व्याख्या - येन बद्धायुषा जीवेन मिश्रभावावस्थायाः 'पुरा' पूर्व 'येन' सम्यक्त्वमिथ्यात्वयोरेकतरेण भावेन कृत्वायुः कर्म बद्धम्, स जीवो मिश्रभावमनुभूयापि पुनस्तेनैव 'भावेन म्रियते,' 'तदाश्रितां गर्ति' च 'याति' गच्छति / तथा मिश्रगुणस्थानस्थो जीवस्तिर्यक्त्रिकस्त्यानद्धित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योताप्रशस्तविहायोगतिस्त्रीवेदरूप(२५)पञ्चविंशतिप्रकृतिबन्धव्यवच्छेदान्मनुष्यदेवायुषोरबन्धाच्च चतुःसप्ततेर्बन्धकः, तथाऽनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयाच्च मिश्रोदयाच्च शतस्य वेदयिता, सप्तचत्वारिंशदधिकशतसत्ताको भवति // 17|| // इति तृतीयं गुणस्थानकम् // अथ चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम्, तत्र प्रथमं सम्यक्त्वप्राप्तिस्वरूपमाह - 1. मीसे खीणसजोगी, न मरंत मरंतेगारसगुणेसु / तह मिच्छसासाण-अविरइ सहपरभवगा न सेसट्ठा // 7 // (विचारसप्ततिका)