________________ 77 चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् यथोक्तेषु च तत्त्वेषु, रुचिर्जीवस्य जायते / निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते // 18 // व्याख्या - 'जीवस्य' भव्यस्य सञिपञ्चेन्द्रियप्राणिनो 'यथोक्तेषु' यथावत्सर्ववित्प्रणीतेषु 'तत्त्वेषु' जीवादिपदार्थेषु 'निसर्गात्' पूर्वभवाभ्यासविशेषजनितात्यन्तनैर्मल्यगुणात्मकात्स्वभावात् 'उपदेशाद्वा' सद्गुरूपदिष्टशास्त्रश्रवणाद् वा या श्रद्धा = रुचिरूपा भावना 'जायते' समुत्पद्यते, 'हि' स्फुटं 'तत्सम्यक्त्वं' सम्यक्श्रद्धानलक्षणमुच्यते, यदाह"रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते / जायते तन्निसर्गेण, गुरोरधिगमेन वा // 17 // " __ (योगशास्त्रम् ) / / 18 / / अथाविरतसम्यग्दृष्टित्वं यथा स्यात् तत्तथाऽऽह - द्वितीयानां कषायाणा-मुदयाव्रतवर्जितम् / सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् // 19 // व्याख्या - 'द्वितीयानां कषायाणां' अप्रत्याख्यानसञ्जितानां क्रोधादीनामुदयाद् 'व्रतवर्जितं' विरतिरहितम्, अत एव 'केवलं' सम्यक्त्वमात्रं 'यत्र' भवति, ‘तच्चतुर्थं गुणास्पदं' अविरतसम्यग्दृष्टिनामकं गुणस्थानकं भवति / अयमर्थः - यथा कश्चित् पुरुषो न्यायोपपन्नधनभोगविलाससुखसौन्दर्यशालिकुलसमुत्पन्नोऽपि दुरन्तद्यूतादिव्यसनाचीर्णा ने कान्यायोत्पादितापराधलब्धराजदण्डखण्डिताभिमानश्चण्डदण्डपाशिकैविडम्ब्यमानः स्वकं व्यसनजनितं कुत्सितं कर्म विरूपं जानन् स्वकु लसुखसौन्दर्य सम्पदमभिलषन्नप्यारक्षकाणां सकाशादुच्छसितुमपि न शक्नोति, तथाऽयं जीवोऽविरतत्वं कुत्सितकर्मकल्पं जानन् विरतिसुखसौन्दर्यमभिलषन्नपि आरक्षककल्प