________________ 78 सम्यग्दृष्टिलक्षणानि द्वितीयकषायाणां सकाशाद् व्रतोत्साहमपि कर्तुं न शक्नोति, अविरतसम्यग्दृष्टित्वमनुभवतीत्यर्थः // 19 // अथ चतुर्थगुणस्थानकस्थितिमाह - उत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः / तदर्द्धपुद्गलावर्त्त-भवैर्भव्यैरवाप्यते // 20 // व्याख्या - ‘अस्य' अविरतसम्यग्दृष्टिगुणस्थानकस्योत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमप्रमाणा सातिरेका भवति, सा च सर्वार्थसिद्ध्यादिविमानस्थितिरूपा मनुष्यायुरधिका ज्ञेया, तथैतत्सम्यक्त्वमर्द्धपुद्गलपरावर्त्तशेषभवैरेवावाप्यते, नान्यैरिति प्रतीतमेव // 20 // अथ सम्यग्दृष्टिलक्षणान्याह - कृपाप्रशमसंवेग-निर्वेदास्तिक्यलक्षणाः / गुणा भवन्ति यच्चित्ते, स स्यात्सम्यक्त्वभूषितः // 21 // व्याख्या - दुःखितेषु जन्तुषु दु:खापहारचिन्ता कृपा 1, कोपादिकारणेषूत्पन्नेषु तीव्रानुशयाभावः प्रशमः 2, सिद्धिसौधाधिरोहसोपानसमानसम्यग्ज्ञानादिसाधनोत्साहलक्षणो मोक्षाभिलाषः संवेगः 3, अत्यन्तकुत्सिततरसंसारचारकनिर्गमद्वारोपमपरमवैराग्यप्रवेशरूपो निर्वेदः 4, श्रीसर्वज्ञप्रणीतसमस्तभावानामस्तित्वनिश्चयचिन्तनमास्तिक्यम्, 5, तदेते ‘कृपाप्रशमसंवेगनिर्वेदाऽऽस्तिक्यलक्षणा गुणा' यस्य चित्ते 'भवन्ति', 'स' भव्यजन्तुः सम्यक्त्वालङ्कृतो भवति // 21 // अथ सम्यग्दृष्टिगुणस्थानवर्तिनां गतिमाह -- क्षायोपशमिकी दृष्टिः, स्यान्नरामरसम्पदे / क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये // 22 //