________________ त्रीणि करणानि 79 व्याख्या - अत्र जीवपरिणामविशेषरूपं करणमुच्यते, तत् त्रिधा - यथाप्रवृत्तिकरणम्, अपूर्वकरणम्, अनिवृत्तिकरणं चेति, तत्र गिरिसरिज्जलाभ्यालोड्यमानपाषाणवद् घोलनान्यायेन जीव आयुर्वर्जकर्माणि किञ्चिदूनैककोटाकोटिसागरस्थितिकानि कुर्वन् येनाध्यवसायविशेषेण ग्रन्थिदेशं यावदायाति तद्यथाप्रवृत्तिकरणमुच्यते 1 / तथा येन अप्राप्तपूर्वेण अध्यवसायविशेषेण तं ग्रन्थि = घनरागद्वेषपरिणतिरूपं भेत्तुमारभते तद् अपूर्वकरणमुच्यते 2 / येनाध्यवसायविशेषेणानिवर्त्तकेन ग्रन्थिभेदं कृत्वाऽतिपरमाह्लादजनकं सम्यक्त्वमाप्नोति तदनिवृत्तिकरणमिति 3 / यदाहुः श्रीजिनभद्रगणिक्षमाश्रमणाः "अंतिमकोडाकोडीए, सव्वकम्माणमाउवज्जाणं / पलिआसंखिज्जइमे, भागे खीणे हवइ गंठी // 1194 // " गंठित्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठिव्व / जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो // 1195 // भिन्नंमि तम्मि लाभो, सम्मत्ताईण मुक्खहेऊणं / सो उ दुलंभो' परिस्सम-चित्तविघायाइविग्घेहिं // 1196 // जा गंठी ता पढमं, गंठिं समइच्छओ भवे बीअं / अनियट्टिकरणं पुण, संमत्तपुरक्खडे जीवे // 1203 // " (विशेषावश्यकभाष्यम् ) [छाया - अन्तिमकोटाकोट्याः, सर्वकर्मणामायुर्वर्जानाम् / पल्यासङ्ख्याततमे, भागे क्षीणे भवति ग्रन्थिः // 1194 // 1. विशेषावश्यकभाष्ये तु 'दुलहो' इति पाठः / 2. विशेषावश्यकभाष्ये तु 'अपुव्वं तु' इति पाठः /