________________ श्रीमद्रत्नशेखरसूरीश्वरविरचितः स्वोपज्ञवृत्तिविभूषितः गुणस्थानक्रमारोहः श्रीवीरो विजयतेतराम् गुणस्थानक्रमारोहोपोद्घातः उपदीक्रियते सज्जनकरकमले लघुरपि महिम्नाऽलघुः शब्दादिभिः स्फुटोऽप्यस्फुटो भावार्थेन परिवृतोऽपि वृत्त्या विधायको निर्वृत्याः परिभावनीयतमोऽयं ग्रन्थः / विधातारश्चास्य श्रीमन्तो रत्नशेखरसूरयो बृहद्गच्छीयाः कदा पावयामासुर्महीमण्डलं महत्तमाः के च श्रीमतां दीक्षागुरव इति जिज्ञासायां श्रीमद्भिः प्रणीतं यद्यपि ग्रन्थवृन्दं वरीवति तथापि स्पष्टं बहुत्र नोपलभ्यते संवदुल्लेखः परं श्रीमद्भिरेव विहितं यत् श्रीपालचरित्रं तत्प्रान्तवर्तिनः "सिरिवज्जसेणगणहरपट्टपहूहेमतिलयसूरीणं / सीसेहि रयणसेहरसूरीहि इमा हु संकलिया // 1339 // तस्सीसहेमचन्देण साहुणा विक्कमस्स वरिसंमि / चउदसअट्ठावीसी लिहिया गुरुभत्तिराएणं // 1340 // " इति / गाथायुगस्य पर्यालोचनया श्रोतृणां प्रतीतिपथमवतरिष्यत्येव यदुत श्रीमतां सत्ताकाल: पञ्चदशशतिको वैक्रमीयः तत्राप्याद्यैव विंशतिरब्दानाम्, कालश्च स विद्वधुर्यसरिताप्रवाहहिमवन्महीधरायमाणः, यतो बभूवुस्तत्रैव शतके श्रीमत्तपोगणेऽपि श्रीमन्तो ज्ञानसागरजयचन्द्रसोमसुन्दरकुलमण्डनगुणरत्नक्षेमकीर्तिसत्यशेखरमुनिसुन्दरसूरिपुरन्दरप्रमुखा अनेके अनेकवादाङ्गणलब्धजयपताकाः, गच्छश्च श्रीमतां यावज्जीवमाचाम्लकरणावाप्ततपोऽभिधानस्य गच्छस्याग्रेतनो बृहद्गच्छाख्यः, ग्रन्थाश्च श्रीमद्भिरपरे श्रीपालचरितसवृत्तिकक्षेत्रसमासगुरुगुणषट्त्रिंशत्षट्विशिकाद्याः समयोपयोगिनो विहिताः सन्ति, उपलभ्यन्ते चापि बहुषु भाण्डागारेषु, नाप्रतीतः समुपलभ्यते तद्ग्रन्थो, विशेषेणान्यः कोऽपि च वृत्तान्तः, केवलं ज्ञायते एतत् यदुत श्रीमन्तः