________________ 141 सिद्धानां सिद्धशिलोपरि स्थितिः व्याख्या - 'प्राग्भारा नाम वसुधा' सिद्धिशिलेतिख्याता पृथ्वी 'लोकमूनि' चतुर्दशरज्ज्वात्मकलोकशिरसि 'व्यवस्थिता' वर्त्तते, 'तस्याः क्षितेरूङ्ख' 'लोकान्ते' लोकप्रान्तस्पृष्टात्मप्रदेशाः ‘सिद्धाः समवस्थिता' भवन्ति, कथम्भूता क्षितिः ? 'मनोज्ञा' मनोहारिणी, पुनः कथम्भूता ? 'सुरभिः' कर्पूरपूराधिकसौरभ्या, 'तन्वी' सूक्ष्मावयवत्वात् कोमला, न तु स्थूलावयवत्वात् कर्कशा, 'पुण्या' पवित्रा ‘परमभासुरा' प्रकृष्टतेजोभासुरा / / 126 / / ____ 'नृलोकतुल्यविष्कम्भा' मनुष्यक्षेत्रसमविस्तारा ‘सितच्छत्रनिभा' श्वेतच्छत्राकारा, परमोत्तानच्छत्रोपमा, 'शुभा' सकलशुभोदयमयीति, सा प्राग्भारा वसुधा सर्वार्थसिद्धाद् द्वादशभिर्योजनैर्भवति, मध्यदेशे साऽष्टयोजना, प्रान्तेषु तीक्ष्णधारोपमा, तस्याः शिलाया उपरि एकेन योजनेन लोकान्तम्, तस्य योजनस्य यश्चतुर्थः क्रोशस्तस्य षष्ठे भागे सिद्धानामवगाहना भवति, यदाह - "ईसीपब्भाराए उवरिं खलु, 'जोयणमि जो कोसो / कोसस्स य छब्भाए, सिद्धाणोगाहणा भणिया // 1 // " __ (विचारसारः 851, गाथासहस्त्री 417, तीर्थोद्गालिप्रकीर्णकम् 1235) [छाया - ईषत्प्राग्भाराया उपरि खलु, योजने यः क्रोशः / ___ क्रोशस्य च षड्भागे, सिद्धानामवगाहना भणिता // 1 // ] तथाहि - द्विसहस्रधनुःप्रमाणस्य क्रोशस्य षष्ठे भागे धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि भवन्ति, धनुस्त्रिभागद्वयं च, तत उत्कृष्टतः सिद्धात्मप्रदेशानामवगाहनाऽप्येतावत्येव भवति, नाधिकेति, यदाह - 1. तीर्थोद्गालिप्रकीर्णके तु 'जोयणस्स' इति पाठः /