________________ 140 निष्कर्मात्मनोऽधस्तिर्यग्लोकेषु गतिनिषेधः तथा 'एरण्डफलबीजादे:' एरण्डफलबीजस्य, आदिशब्दाच्छणबीजादेर्बन्धच्छेदाद्यथोर्ध्वगतिर्भवेत्, 'कर्मबन्धनविच्छेदात्सिद्धस्यापि' तथैवोर्ध्वगतिर्भवतीति तृतीयहेतुदृष्टान्तः // 123 / / ____ तथा लेष्टुवाय्वग्निवीचयः' इष्टकाखण्डसमीरणवह्नयः ‘स्वभावतः' एव यथाऽधस्तिर्यगूज़' क्रमेण ‘प्रवर्त्तन्ते', तथाऽऽत्मनोऽपि स्वभावादेवोर्ध्वगतिर्भवतीति चतुर्थहेतुदृष्टान्तः // 124 / / अथाधस्तिर्यग्लोकेषु निष्कर्माऽऽत्मनो गतिनिषेधमाह - न चाधो गौरवाभावा-न्न तिर्यक् प्रेरकं विना। न च धर्मास्तिकायस्या-भावाल्लोकोपरि व्रजेत् // 125 // व्याख्या - सिद्धात्माऽधस्तान्न गच्छति, कस्मात् ? 'गौरवाभावात्' कर्मजनितगुरुत्वाभावात्, तथा 'प्रेरकं विना' प्रेरककर्माभावान्न तिर्यग् गच्छति, तथा निष्कर्मा 'लोकोपरि न व्रजेद्' अलोकमध्ये न गच्छेत्, कस्मात् ? 'धर्मास्तिकायस्याभावात्', लोके हि जीवपुद्गलयोर्गतिहेतुर्धर्मास्तिकायो भवति, मत्स्यादीनां सलिलवत्, तस्य धर्मास्तिकायस्यालोकेऽसम्भवात् सिद्धात्मा लोकोपरि न व्रजेदिति // 125 / / अथ सिद्धानां स्थितियथा सिद्धशिलोपरि लोकान्तेऽस्ति, तथा श्लोकद्वयेनाह - मनोज्ञा सुरभिस्तन्वी, पुण्या परमभासुरा / प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता // 126 // नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ऊर्ध्वं तस्याः क्षितेः सिद्धाः, लोकान्ते समवस्थिताः // 127 // // युग्मम् //