________________ सिद्धस्योद्धर्वगतेर्हेतुचतुष्टयं सदृष्टान्तम् 139 'पूर्वप्रयोगतः' अचिन्त्यात्मवीर्येणोपान्त्यसमयद्वये पञ्चाशीतिकर्मप्रकृतिक्षपणाय पूर्वं यः प्रयुक्तः प्रयोगो व्यापारः प्रयत्नस्तस्मादित्येको हेतुः / न सङ्गोऽसङ्गस्तस्य भावोऽसङ्गभावस्तस्मात्, कर्मोपग्रहरूपसङ्गमाभावात् इति द्वितीयो हेतुः / बन्धाद् विमोक्षो बन्धविमोक्षस्तस्माद्, गाढतरबन्धनविमुक्तितः इति तृतीयो हेतुः / स्वभावेन परिणमनं स्वभावपरिणामस्तस्मात्, तथास्वाभाव्यादिति चतुर्थो हेतुः // 120 // अथेतिहेतुचतुष्टयं सदृष्टान्तं क्रमेण श्लोकचतुष्टयेनाऽऽह - कुलालचक्रदोलेषु-मुख्यानां हि यथा गतिः / पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा // 121 // मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः / कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धगतिः स्मृता // 122 // एरण्डफलबीजादे-र्बन्धच्छेदाद्यथा गतिः / कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेक्ष्यते // 123 // यथाऽधस्तिर्यगूर्ध्वं च, लेष्टुवाय्वग्निवीचयः / स्वभावतः प्रवर्त्तन्ते, तथोर्ध्वगतिरात्मनः // 124 // // चतुर्भिः कलापकम् // व्याख्या - कुलालचक्रं कुम्भकारोपकरणं दोला प्रेङ्खा इषुः बाणस्तन्मुख्यानां यन्त्रगोफणमुक्तगोलकादीनां 'गतिः' 'हि' स्फुटं 'यथा' येन प्रकारेण 'पूर्वप्रयोगतः' 'सिद्धा' प्रसिद्धा 'तथा' तेन प्रकारेण पूर्वप्रयोगतः ‘सिद्धस्योर्ध्वगतिः' सिद्धेत्येको दृष्टान्तः // 121 // तथा 'मृल्लेपसङ्गनिर्मोक्षात्' मृत्तिकाप्रलेपसङ्गतिमुक्तेः 'अप्सु' जलेषु 'अलाबुनः' तुम्बकफलस्य यथोर्ध्वगतिर्दृष्टा, तथा कर्मलेपसङ्गनिर्मोक्षात्सिद्धानामूर्ध्वगतिः स्मृतेति द्वितीयहेतुदृष्टान्तः // 122 / /