________________ 138 अन्त्यसमये त्रयोदशकर्मप्रकृतीः क्षपयति व्याख्या - सोऽयोगी 'हि' स्फुटमन्त्ये समये 'एकतरं वेद्यं' 1 'आदेयत्वं' 2 पर्याप्तत्वं 3 'त्रसत्वं' 4 ‘बादरत्वं' 5 'मनुष्यायुः' 6 'सद्यशः' 7 मनुष्यगतिः 8 मनुष्यानुपूर्वी 9 'सौभाग्यं' 10 उच्चैर्गोत्रं 11 पञ्चेन्द्रियजातिः 12 'तीर्थकृन्नामेति' 13 'त्रयोदश' प्रकृती: 'क्षयं' नीत्वा 'तत्रैव समये लब्धसिद्धत्वपर्यायः' प्राप्तसिद्धत्वनामा 'परमेष्ठी सनातनः' भगवान् शाश्वतः ‘लोकान्तं' लोकपर्यन्तं 'व्रजेद्' गच्छेदिति। तथाऽयोगिगुणस्थानस्थो जीवोऽबन्धकः, तथैकतरवेद्य 1 आदेय 2 यशः 3 सुभग 4 त्रसत्रिक 7 पञ्चेन्द्रियत्व 8 'मनुष्यगति 9 मनुष्यानुपूर्वी 10 मनुष्यायुः 11 उच्चैर्गोत्र 12 तीर्थकृदिति 13 त्रयोदशप्रकृतिवेदयिता, अन्त्यसमयद्वयादाक् पञ्चाशीतिसत्ताकः, उपान्त्ये समये त्रयोदशप्रकृतिसत्ताकोऽन्त्यसमयेऽसत्ताकः // 117-118-119 / / // इत्ययोगिनश्चतुर्दशम् // 14 // निष्कर्मात्मा तस्मिन्नेव समये लोकान्तं कथं याति ? इत्याशङ्क्याह पूर्वप्रयोगतोऽसङ्ग-भावाद् बन्धविमोक्षतः / स्वभावपरिणामाच्च, सिद्धस्योर्ध्वगतिर्भवेत् // 120 // व्याख्या - 'सिद्धस्य' निष्कर्मात्मन ऊर्ध्वगतिर्भवति, कस्मात् ? 1. अत्रैवं पाठः समीचीनो भाति - ......मनुष्यगति 9 मनुष्यायुः 10 उच्चैर्गोत्र 11 तीर्थकृदिति 12 द्वादशप्रकृतिवेदयिता,.....' यतो मनुष्यानुपूर्व्या उदयविच्छेदः प्रागेव चतुर्थगुणस्थानके जातः / तत एव पञ्चमगुणस्थानके सप्ताशीतेरुदयो भवति / उक्तञ्च 25 तम गाथावृत्तौ - 'तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिकवैक्रियद्वयदुर्भगानादेयायशोरूपसप्तदश (17) प्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता,...।' तत्त्वं तु बहुश्रुता विदन्ति /