________________ चतुर्थं शुक्लध्यानम् 135 व्याख्या - 'यत्र' ध्याने 'सूक्ष्मयोगात्मिकाऽपि' सूक्ष्मकाययोगरूपाऽपि ‘क्रिया' 'समुच्छिन्ना' सर्वथा निवृत्ता तत्समुच्छिन्नक्रियं नाम चतुर्थं ध्यानं 'प्रोक्तम्', कथम्भूतम् ? 'मुक्तिवेश्मनः' सिद्धिसौधस्य 'द्वारं' द्वारोपममिति // 106 / / अथ शिष्येण कृतं प्रश्नद्वयमाह - देहास्तित्वेऽप्ययोगित्वं, कथं ? तद् घटते प्रभो ! / देहाभावे तथा ध्यानं, दुर्घटं घटते कथम् ? // 107 // व्याख्या - शिष्यः पृच्छति - हे प्रभो ! 'देहास्तित्वे' सूक्ष्मेऽपि वपुर्योगास्तित्वेऽयोगित्वमस्तीति 'तत्कथं घटते ?' इत्येकः प्रश्नः, 'तथा' चेद्यदि देहाभावः सर्वथा काययोगाभावः सञ्जातस्तदा 'देहाभावे' 'दुर्घटं ध्यानं कथं घटते ?' इति द्वितीयः प्रश्नः // 107 / / अथाऽऽचार्यः प्रश्नद्वयस्योत्तरं पद्यद्वयेनाऽऽह - वपुषोऽत्रातिसूक्ष्मत्वा-च्छीघ्रम्भाविक्षयत्वतः / कायकार्यासमर्थत्वात्, सति कायेऽप्ययोगता // 108 // तच्छरीराश्रयाद्ध्यान-मस्तीति न विरुध्यते / निजशुद्धात्मचिद्रूप-निर्भरानन्दशालिनः // 109 // // युग्मम् // व्याख्या - आचार्य आह - भोः शिष्य ! 'अत्र' अयोगिगुणस्थाने 'काये' सूक्ष्मे वपुर्योगे 'सत्यप्ययोगता' प्रोच्यते, कस्मात् ? 'वपुषः' कायस्य ‘अतिसूक्ष्मत्वात्' सूक्ष्मक्रियारूपत्वादिति, तथा 'शीघ्रम्भाविक्षयत्वतः' क्षयस्य भावः क्षयत्वम्, शीघ्रं भावि क्षयत्वं यस्य तच्छीघ्रम्भाविक्षयत्वं तस्मात्, तथा 'कायकार्यासमर्थत्वाद्' देहकृत्यसाधनाक्षमत्वात् काये सत्यप्ययोगता भवतीति / / 108 / / तथा 'तच्छरीराश्रयात्' तादृग्देहास्तित्वाश्रयणात् 'ध्यानमस्तीति'