________________ 134 क्षपकस्य चतुर्दशगुणस्थानम् सयोगिगुणस्थानस्थो जीव एकविधबन्धकः, उपान्त्यसमयं यावत् ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतिवेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपषोडशप्रकृतीनां सत्ताव्यवच्छेदात्पञ्चाशीतिसत्ताको भवति // 103 / / // इति सयोगिगुणस्थानम् // 13 // अथायोगिगुणस्थानस्य स्थितिमाह - अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशितुः / लघुपञ्चाक्षरोच्चार-प्रमितैव स्थितिर्भवेत् // 104 // व्याख्या - ‘अथ' त्रयोदशगुणस्थानानन्तरं 'अयोगिगुणस्थानके' चतुर्दशे ‘अस्य जिनेशितुः' जिनेन्द्रस्य ‘तिष्ठतः' अवस्थितस्य 'लघुपञ्चाक्षरोच्चारप्रमितैव' 'अ-इ-उ-ऋ-लु' वर्णपञ्चकसमुच्चरणकालतुल्यैव स्थितिर्भवति // 104 / / अथायोगिगुणस्थाने ध्यानसम्भवमाह - तत्रानिवृत्तिशब्दान्तं, समुच्छिन्नक्रियात्मकम् / चतुर्थं भवति ध्यान-मयोगिपरमेष्ठिनः // 105 // व्याख्या - 'तत्र' तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्ठिनश्चतुर्थं ध्यानं' 'समुच्छिन्नक्रियात्मकं' वक्ष्यमाणस्वरूपं 'भवति', कथम्भूतम् ? 'अनिवृत्तिशब्दान्तं' अनिवृत्तिशब्दोऽन्ते यस्य तत्समुच्छिन्नक्रियाऽनिवृत्तिनामकं चतुर्थं ध्यानमिति / / 105 // अथास्य चतुर्थध्यानस्य स्वरूपमाह - समुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि / समुच्छिन्नक्रियं प्रोक्तं, तद्द्वारं मुक्तिवेश्मनः // 106 //