________________ सयोगिगुणस्थानान्त्यसमयकृत्यम् व्याख्या - 'यथा' येन प्रकारेण 'छद्मस्थस्य' योगिनो 'मनसः स्थैर्य ध्यानमुच्यते', 'तथैव' तेन प्रकारेण ‘वपुषः स्थैर्य' शरीरस्य निश्चलत्वम्, 'केवलिनो ध्यानं' भवतीति // 101 // अथ शैलेशीकरणारम्भी सूक्ष्मकाययोगी यत्करोति, तदाह - शैलेशीकरणारम्भी, वपुर्योगे स सूक्ष्मके। तिष्ठन्नूास्पदं शीघ्रं, योगातीतं यियासति // 102 // व्याख्या - केवलिनो हुस्वाक्षरपञ्चकोद्गिरणमात्रायुषः शैलवन्निश्चलकायस्य चतुर्थध्यानपरिणतिरूपं शैलेशीकरणं भवति, ततः 'स' केवली 'शैलेशीकरणारम्भी' शैलेशकरणारम्भी ‘सूक्ष्मके वपुर्योगे' सूक्ष्मरूपे काययोगे ‘तिष्ठन्' 'शीघ्रं' त्वरितं 'ऊर्ध्वास्पदं' 'योगातीतम्' अयोगिगुणस्थानं 'यियासति' यातुमिच्छति // 102 / / ____ अथ भगवान् स केवली सयोगिगुणस्थानान्त्यसमये यत्करोति, तदाह अस्यान्त्येऽङ्गोदयच्छेदात्, स्वप्रदेशघनत्वतः / करोत्यन्त्याङ्गसंस्थान-त्रिभागोनावगाहनम् // 103 // व्याख्या - 'अस्य' सयोगिकेवलिगुणस्थानस्य ‘अन्त्ये' अन्त्यसमये औदारिकद्विकमस्थिरद्विकं विहायोगतिद्विकं प्रत्येकत्रिकं संस्थानषट्कम् अगुरुलघुचतुष्कं वर्णादिचतुष्कं निर्माणकर्म तैजसकार्मणद्वयं प्रथमं संहननं स्वरद्विकमेकतरं वेदनीयं चेति त्रिंशत्प्रकृतीनामुदयव्यवच्छेदो भवति, ततोऽत्राङ्गोपाङ्गोदयव्यवच्छेदादन्त्याङ्गसंस्थानावगाहनायाः सकाशात्रिभागोनावगाहनां करोति, कस्मात् ? - 'स्वप्रदेशघनत्वतः' चरमाङ्गोपाङ्गगतनासिकादिच्छिद्राणां पूरणेन स्वप्रदेशानाम् = आत्मप्रदेशानां घनत्वं = निबिडत्वं भवति तस्मात्स्वप्रदेशघनत्वतस्त्रिभागोनत्वं भवतीति /