________________ 132 योगनिरोधः स सूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् / निग्रहं कुरुते सद्यः, सूक्ष्मवाचित्तयोगयोः // 19 // ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः / सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् // 100 // // चतुर्भिः कुलकम् // व्याख्या - 'स' केवली सूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्त्याऽस्मिन् बादरे काययोगे स्वभावतः स्थितिं कृत्वा' 'बादरं वाञ्चित्तयोगयुग्मं' स्थूलवचोमनोयोगयुगलं 'सूक्ष्मीकरोति' // 97 // ततः 'स्थूलं' बादरं 'वपुर्योगं त्यक्त्वा सूक्ष्मवाचित्तयोः स्थिति कृत्वा बादरं काययोगं सूक्ष्मत्वं' प्रापयति // 98 // ‘स सूक्ष्मकाययोगे पुनः' 'क्षणं' क्षणमात्रं 'स्थितिं कृत्वा सद्यः' तत्कालं 'सूक्ष्मवाचित्तयोः' 'निग्रहं' सर्वथा तत्सम्भवाभावं 'कुरुते' // 99 // 'ततः सूक्ष्मे' काययोगे 'क्षणं स्थितिं कृत्वा' 'हि' स्फुटं 'स' केवली 'निजात्मानं सूक्ष्मक्रियं चिद्रूपं' स्वयमात्मनैव ‘विन्दति' अनुभवति // 100 // // इति श्लोकचतुष्टयार्थः // अथ यदेव सूक्ष्मक्रियस्य वपुषः स्थैर्यं भवति, तदेव केवलिनां ध्यानं स्यादित्याह - छद्मस्थस्य यथा ध्यानं, मनसः स्थैर्यमुच्यते / तथैव वपुषः स्थैर्य, ध्यानं केवलिनो भवेत् // 101 //