________________ तृतीयं शुक्लध्यानम् 131 [ छाया - षण्मासायुषि शेषे, उत्पन्नं येषां केवलज्ञानम् / ते नियमात्समुद्घातिनः, शेषाः समुद्धाते भक्तव्याः // 133 // ] // 94 // अथ समुद्धाताद् निवृत्तो यत्करोति, तदाह - समुद्धातान्निवृत्तोऽसौ, मनोवाक्काययोगवान् / ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् // 15 // व्याख्या - ‘असौ मनोवाक्काययोगवान्' केवली = सयोगिकेवली 'समुद्धातान्निवृत्तः' सन् ‘योगनिरोधार्थं' योगनिरोधनिमित्तं तृतीयं 'शुक्लध्यानं ध्यायेत्' / 95 / / अथ तदेव तृतीयं शुक्लध्यानमाह - आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका / तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियाऽनिवृत्तिकम् // 16 // व्याख्या - तस्मिन्नवसरे तस्य केवलिनस्तृतीयं 'सूक्ष्मक्रियाऽनिवृत्तिकं' नाम शुक्लध्यानं भवति, 'तत्' किम् ? 'यत्राऽऽत्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका' भवति, कोऽर्थः ? आत्मस्पन्दात्मिका क्रियाऽपि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः स्थूलत्वं न भजतीत्यर्थः // 96 / / अथ मनोवचःकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति, तथा तथा श्लोकचतुष्टयेनाऽऽह - बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः / सूक्ष्मीकरोति वाक्चित्त-योगयुग्मं स बादरम् // 17 // त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाचित्तयोः स्थितिम् / कृत्वा नयति सूक्ष्मत्वं, काययोगं तु बादरम् // 98 //