SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 130 यः केवली समुद्घातं करोति शरीरयोगवान् भवति, द्वितीयषष्ठसप्तमकेषु समयेषु ''तु' पुनः स केवली समुद्धातं कुर्वन् ‘मिश्रौदारिकयोगी च' स्यात् मिश्रौदारिकयोगवान् भवति, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्य, 'तृतीयाद्येषु त्रिषु तु' पुनस्तृतीयप्रमुखेषु 'त्रिषु समयेषु' तृतीयचतुर्थपञ्चमलक्षणेषु स केवली केवलैककर्माङ्गधरो भवति, केवलकार्मणकाययोगी भवति, तदा तत्र समये स केवली केवलकार्मणकाययोगत्वादनाहारको भवति, यदाह - "औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु // 275 // 'कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च / समयत्रये च तस्मिन्, भवत्यनाहारको नियमात् // 276 // " (प्रशमरतिप्रकरणम् ) // 92-93 // अत्र यः केवली समुद्धातं करोति, तदाह - यः षण्मासाधिकायुष्को, लभते केवलोद्गमम् / करोत्यसौ समुद्धात-मन्ये कुर्वन्ति वा नवा // 14 // व्याख्या - 'यः षण्मासाधिकायुष्कः' सन् 'केवलोद्गमं' केवलोत्पत्तिं लभते' प्राप्नोति, 'असौ समुद्धातं' निश्चयेन ‘करोति', 'अन्ये' षण्मासमध्यायुष्काः केवलिनः समुद्धातं 'कुर्वन्ति वा' = अथवा 'न' कुर्वन्ति च, तेषां समुद्धातकरणे भजनैव, यदाह - "छम्मासाऊ सेसे, उप्पन्नं जेसि केवलं नाणं / ते नियमा समुग्घाया, सेसा समुग्घाइ भइयव्वा // 133 // " (गाथासहस्री) 1. मूले तु 'च' इति पाठः। 2. प्रशमरतिप्रकरणे तु 'कार्मणशरीरयोगी' इति पाठः / 3. प्रशमरतिप्रकरणे तु ‘समयत्रयेऽपि' इति पाठः /
SR No.032801
Book TitlePadarth Prakash 26 Gunsthankramaroh
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages234
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy