________________ 129 केवलिसमुद्घातः चतुर्भिः समयैर्विश्वव्यापी भवति // 90 // अथ ततो निवृत्तिमाह - एवमात्मप्रदेशानां, प्रसारणविधानतः / कर्मलेशान् समीकृत्यो-त्क्रमात्तस्मान्निवर्त्तते // 11 // व्याख्या - ‘एवं' अमुना पूर्वोक्तप्रकारेण केवली सर्वात्मप्रदेशानां 'प्रसारणविधानतो' विस्तारणप्रयोगात् 'कर्मलेशान् समीकृत्य' 'तस्माद्' समुद्धाताद् ‘उत्क्रमाद्' विपरीतक्रमाद् ‘निवर्त्तते' / अयमर्थः - चतुभिः समयैर्जगत्पूरणं कृत्वा पञ्चमे समये पूरणान्निवर्त्तते, षष्ठे समये मन्थानत्वं निवर्त्तयति, सप्तमे समये कपाटत्वमुपसंहरति, अष्टमे समये दण्डत्वमुपसंहरन् स्वभावस्थो भवति, यदाह वाचकमुख्यः - "दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये / मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु // 273 // संहरति पञ्चमे त्व-न्तराणि मन्थानमथ पुनः षष्ठे / सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् // 274 // " (प्रशमरतिप्रकरणम् ) // 91 / / अथ केवली समुद्धातं कुर्वन् यथा योगवान् अनाहारकश्च भवति, तथा श्लोकद्वयेनाऽऽह - समुद्धातस्य तस्याये, चाष्टमे समये मुनिः।। औदारिकाङ्गयोगः स्याद्, द्विषट्सप्तमकेषु च // 12 // मिश्रौदारिकयोगी च, तृतीयाद्येषु तु त्रिषु / / समयेष्वेककर्माङ्ग-धरोऽनाहारकश्च सः // 93 // // युग्मम् // व्याख्या - ‘स' केवली समुद्धातं कुर्वन् 'आद्ये' प्रथमे 'अष्टमे' अन्त्ये चेति समयद्वये 'औदारिकाङ्गयोगः स्यात्' औदारिक