________________ 128 केवलिसमुद्घात: अथ तमेव समुद्धातमाह - दण्डत्वं च कपाटत्वं, मन्थानत्वं च पूरणम् / कुरुते सर्वलोकस्य, चतुर्भिः समयैरसौ // 10 // व्याख्या - प्रथमं समुद्धातस्वरूपमुच्यते - यथास्वभावस्थितानामात्मप्रदेशानां वेदनादिभिः सप्तभिः कारणैः समन्तादुद्धातनं = स्वभावादन्यभावेन परिणमनं समुद्धातः, स च सप्तधा - वेदनासमुद्धातः, कषायसमुद्धातः, मरणसमुद्धातः, वैक्रियसमुद्धातः, तैजससमुद्धातः, आहारकसमुद्धातः, केवलिसमुद्धातश्च, यदाह - "वेयण कसाय मरणे, वेउव्विअ तेअ आहार केवलिओ / नरसुरतिरिनरएसु, सग पण तिय चउ समुग्घाया // 1 // पण तिरिसन्निपणिदिएसु, चउरो पज्जत्तथूलवाऊसु / छत्तेसंतमुहुत्ता, अडसामइयओ य केवलिओ // 2 // " ( ) [छाया - वेदनाकषायमरणवैक्रियतैजसाहारककैवलिकाः / नरसुरतिर्यग्नरकेषु, सप्त पञ्च त्रयश्चत्वारः समुद्धाताः // 1 // पञ्च तिर्यक्सञिपञ्चेन्द्रियेषु, चत्वारः पर्याप्तस्थूलवायुषु / षट् तेषामन्तर्मुहूर्ताः, अष्टसामयिकश्च कैवलिकः // 2 // ] इत्येतेषु सप्तसु समुद्धातेष्वन्त्यः केवलिसमुद्धातः, तदर्थमसौ केवली आयुर्वेद्ययोः समीकरणार्थमात्मप्रदेशैरूधिो लोकान्तं यावत्प्रसारितैरेकस्मिन् समये 'दण्डत्वं' दण्डाकारत्वं कुरुते, द्वितीये समये पूर्वापरयोदिशोविस्तृतैरात्मप्रदेशैरेव ‘कपाटत्वं' कपाटाकारत्वं कुरुते, तृतीये समये दक्षिणोत्तरयोर्दिशोरप्यात्मप्रदेशैः कपाटाकारविस्तृतैर्मन्थानत्वं = मन्थानाकारत्वं कुरुते, चतुर्थे समयेऽन्तरालपूरणेन 'सर्वलोकस्य' चतुर्दशरज्ज्वात्मकलोकस्य 'पूरणं कुरुते', एवं केवली समुद्धातं कुर्वन्