________________ केवलिनां स्थितिः 127 कुर्वता? 'भूतले' पृथ्वीमण्डले 'भव्यजीवानां प्रतिबोधादि कुर्वता', आदिशब्दाद्देशविरतिसर्वविरत्यारोपादि विदधता, काभिः ? 'सद्देशनादिभिः' तत्त्वोपदेशादिभिः कृत्वा वेद्यते, यदुक्तम् - "तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाइहिं / बज्झइ तं तु भगवओ, तइयभवोसक्कइत्ताणं // 183 // " (आवश्यकनियुक्तिः) [छाया - तच्च कथं वेद्यते ? अग्लान्या धर्मदेशनादिभिः / बध्यते तत्तु भगवतः, तृतीयभवे अवसl // 183 // ] इति / / 87|| अथ केवलिनां स्थितिमाह - उत्कर्षतोऽष्टवर्षोनं, पूर्वकोटिप्रमाणकम् / कालं यावन्महीपीठे, केवली विहरत्यलम् // 88 // व्याख्या - 'केवली' केवलज्ञानवान् 'महीपीठे' पृथ्वीमण्डले 'उत्कर्षतोऽष्टवर्षोनं पूर्वकोटिप्रमाणं कालं यावत्' 'अलं' अत्यर्थं 'विहरति', काञ्चनकमलेषु पदन्यासं कुर्वन् अष्टप्रातिहार्यविभूतिकलितः अनेकसुरासुरकोटिसंसेवितो विचरति, अयं च सामान्यकेवलिविहारकालसम्भवो दर्शितः, जिनास्तु मध्यमायुष एव भवन्ति / 88 / / अथ केवलिसमुद्धातकरणमाह - चेदायुषः स्थितियूंना, सकाशाद्वेद्यकर्मणः।। तदा तत्तुल्यतां कर्तुं, समुद्धातं करोत्यसौ // 89 // व्याख्या - ‘असौ' केवली 'चेद्' यदि 'वेद्यकर्मणः सकाशात्' वेदनीयकर्मसमीपाद् ‘आयुषः स्थितिः' आयुःकर्मावस्थितिः 'न्यूना' स्तोका भवति, ‘तदा तत्तुल्यतां कर्तुं' आयुर्वेद्ययोस्तुल्यताकरणार्थं समुद्धातं करोति // 89 //