________________ 126 तीर्थकृतो महिमा अपूर्वज्ञानग्रहणं, श्रुतभक्तिः प्रवचने प्रभावना / एतैः कारणै-स्तीर्थकरत्वं लभते जीवः // 3 // ] ततः 'अत्र' सयोगिनि गुणस्थाने 'तत्कर्मोदयतः' तीर्थकृत्कर्मोदयात् ‘असौ' केवली 'जगत्पतिः' त्रिभुवनाधिपतिः 'जिनेन्द्रः' 'स्यात्,' जिनाः = सामान्यकेवलिनस्तेषामिन्द्र इव जिनेन्द्रः // 85 / / अथ तीर्थकृतो महिमानमाह - | स सर्वातिशयैर्युक्तः, सर्वामरनरैर्नतः / चिरं विजयते सर्वो-त्तमं तीर्थं प्रवर्तयन् // 86 // व्याख्या - 'स' भगवांस्तीर्थकरः, "चउरो जम्मप्पभिइ, इक्कारस कम्मसंखए जाए। नव दस य देवजणिए, चउतीसं अइसए वंदे // 7 // " ___ (दर्शनशुद्धिप्रकरणम्) [छाया - चत्वारो जन्मप्रभृति, एकादश कर्मसङ्क्षये जाते / नव दश च देवजनिताश्चतुस्त्रिंशतमतिशयान् वन्दे // 7 // ] इत्येवंविधैश्चतुस्त्रिंशत्सङ्ख्यैरतिशयैर्युक्तः, तथा सर्वामरनरैर्नतः' सकलदेवमानवनमस्कृतः, 'सर्वोत्तमं' सकलशासनप्रवरं 'तीर्थं' शासनं 'प्रवर्तयन्' प्रकटयन् 'चिरं' देशोनां पूर्वकोटिं यावदुत्कृष्टतो 'विजयते' // 86 // अथ तत्तीर्थकृत्कर्म यथा वेद्यते, तदाह - वेद्यते तीर्थकृत्कर्म, तेन सद्देशनादिभिः / भूतले भव्यजीवानां, प्रतिबोधादि कुर्वता // 87 // व्याख्या - 'तेन' तीर्थकृता तत्कर्म 'वेद्यते' अनुभूयते, किं