________________ विंशतिस्थानानि 125 व्याख्या - 'विशेषाद्' अर्हद्भक्तिप्रमुखविंशतिपुण्यस्थानकविशेषाऽऽराधनाद् ‘येन' जन्तुना 'ऊर्जितं' स्फीतं 'तीर्थकृत्कर्म' 'अर्जितम्' उपार्जितमस्ति, तीर्थकृत्कर्मार्जने हि हेतुभूतान्यर्हद्भक्तिमुख्यानि विंशतिस्थानान्येतानि, यदाह - "अरिहंत सिद्ध पवयण, गुरु थेर बहुस्सुए तवस्सीसुं / 'वच्छलया एएसिं, अभिक्खनाणोवओगे अ // 1 // दंसणविणए आवस्सए अ, सीलव्वए निरइयारे / खणलवतवच्चियाए, वेयावच्चे समाही अ // 2 // अप्पुव्वनाणगहणे', सुअभत्ती पवयणे पभावणया / एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो // 3 // " (प्रवचनसारोद्धारः 310-312, विचारसार: 51-53, रत्नसञ्चयः 371-373) [छाया - अर्हत्सिद्धप्रवचन-गुरुस्थविरबहुश्रुते तपस्विषु / वात्सल्यमेतेषु, अभीक्ष्णं ज्ञानोपयोगौ च // 1 // दर्शनविनयौ आवश्यकानि च, शीलवते निरतिचारता / क्षणलवतपस्त्यागा, वैयावृत्त्यं समाधिश्च // 2 // 1. प्रवचनसारोद्धार-विचारसार-रत्नसञ्चयेषु तु 'तवस्सी य' इति पाठः / 2. प्रवचनसारोद्धार-विचारसार-रत्नसञ्चयेषु तु ‘वच्छल्ल्या य एसिं' इति पाठः। 3. प्रवचनसारोद्धार-विचारसारयोस्तु निरड्यारो' इति पाठः / रत्नसञ्चये तु ‘सीलवय साहुवावारो' इति पाठः / 4. रत्नसञ्चये तु 'वेयावच्चं' इति पाठः / 5. रत्नसञ्चये तु 'अप्पुव्वणाणग्गहणं' इति पाठः /