________________ 124 केवलात्मनः केवलज्ञानबलम् भावोऽत्र क्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम् / क्षायिकं हि यथाख्यात-चारित्रं तस्य निश्चितम् // 83 // व्याख्या - 'तस्य' केवलात्मनो भगवतः, 'अत्र' सयोगिगुणस्थाने 'भावः क्षायिक' एव 'शुद्धः' अतिनिर्मलो भवति, 'सम्यक्त्वं' 'परं' प्रकृष्टं क्षायिकमेव 'हि' स्फुटं 'चारित्रं क्षायिकं' यथाख्यातनामकं निश्चितं भवति, कोऽर्थः ? अत्रौपशमिकक्षायोपशमिकभावयोरभावात् क्षायिको भावः, तथा दर्शनमोहनीयस्य चारित्रमोहनीयस्य क्षीणत्वात् क्षायिके सम्यक्त्वचारित्रे इति // 83 / / अथ तस्य केवलात्मनः केवलज्ञानबलमाह - चराचरमिदं विश्वं, हस्तस्थामलकोपमम् / प्रत्यक्षं भासते तस्य, केवलज्ञानभास्वतः // 84 // व्याख्या - ‘चराचरं विश्वं' सचराचरं जगत् 'हस्तस्थामलकोपमं' हस्ततलगृहीतामलफलोपमं 'प्रत्यक्षं' साक्षात्कारेण 'भासते' दीप्यत इति, अत्र भास्वतः सूर्यस्योपमानं व्यवहारमात्रेणैव दर्शितम्, न निश्चयतः, यतो निश्चयनयेन केवलज्ञानसूर्ययोर्महदन्तरम्, यदाह - "चंदाइच्चगहाणं पहा, पयासेइ परिमियं खित्तं / केवलिअनाणलंभो, लोआलोअं पयासेइ // 339 // " (विंशतिर्विशिका: ) // 84|| [छाया - चन्द्रादित्यग्रहाणां प्रभा, प्रकाशयति परिमितं क्षेत्रम् / कैवल्यज्ञानलाभो, लोकालोकं प्रकाशयति // 339 // ] अथार्जिततीर्थकृत्कर्मणो विशेषमाह - विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम् / तत्कर्मोदयतोऽत्रासौ, स्याज्जिनेन्द्रो जगत्पतिः // 85 //