________________ क्षपकस्य त्रयोदशगुणस्थानम् 123 अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविजयोः / क्षपयित्वा मुनिः क्षीण-मोहः स्यात्केवलात्मकः // 81 // व्याख्या - क्षपको 'मुनिः' क्षीणमोहस्यान्त्ये समये 'दृष्टिचतुष्कं' चक्षुर्दर्शनादिदर्शनचतुष्कं ज्ञानान्तरायदशकं चेत्येताश्चतुर्दश प्रकृती: क्षपयित्वा क्षीणमोहांशः सन् 'केवलात्मकः' स्यादिति / तथा क्षीणमोहगुणस्थानस्थो जीवो दर्शनचतुष्कज्ञानान्तरायदशकोच्चयशोरूपषोडशबन्धव्यवच्छेदादेकसातवेद्यबन्धकः, तथा सज्वलनलोभऋषभनाराचनाराचोदयव्यवच्छेदात् सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताको भवति // 81 / / // इति क्षपकस्य द्वादशम् // अथ क्षीणमोहान्तप्रकृतीनां सङ्ख्यामाह एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः / पञ्चाशीतिर्जरद्वस्त्र-प्रायाः शेषाः सयोगिनि // 82 // व्याख्या - ‘एवं' पूर्वोक्तप्रकारेण त्रिषष्टिप्रकृतीनां स्थितिः क्षीणमोहान्तैव, कोऽर्थः ? चतुर्थगुणस्थानादारभ्य क्षीयमाणानां प्रकृतीनां त्रिषष्टिः क्षीणमोहे सम्पूर्णा, यथैकस्याः प्रकृतेश्चतुर्थगुणस्थाने क्षयः, पुनरेकस्याः पञ्चमे, अष्टानां सप्तमे, षट्त्रिंशत्प्रकृतीनां नवमे, एकस्याः प्रकृतेर्दशमे, 'सप्तदशप्रकृतीनां द्वादशे क्षयः, इत्येवं त्रिषष्टिप्रकृतीनां क्षीणमोहान्तैव स्थितिरुक्ता, तथा शेषास्त्रिषष्टिव्यतिरिक्ताः पञ्चाशीतिप्रकृतयो 'जरद्वस्त्रप्राया' अत्यर्थं जीर्णचीवरकल्पाः सयोगिगुणस्थाने भवन्ति / / 82 / / अथ सयोगिनि यो भावो भवति, ये च सम्यक्त्वचारित्रे भवतः, तदाह - 1. अयं पाठोऽशुद्धो भासते। 'षोडशप्रकृतीनां' इति समीचीनः पाठः सम्भवति /