________________ 122 द्वितीयशुक्लध्यानजनितसमरसीभाव: व्याख्या - 'यत्र' 'निजशुद्धात्मनिष्ठं' स्वकीयातिविशुद्धपरमात्मलीनं 'हि' स्फुटं 'चिन्तनं' सूक्ष्मविचारणात्मकं ‘क्रियते', तत्सवितकैकगुणोपेतं द्वितीयं शुक्लध्यानम्, कस्मात् ? 'भावश्रुतावलम्बनात्' सूक्ष्मान्तर्जल्परूपभावगतश्रुतावलम्बनमात्रचिन्तनादिति // 78 // अथ द्वितीयशुक्लजनितसमरसीभावमाह - इत्येकत्वमविचारं, सवितर्कमुदाहृतम् / व्याख्या - ‘इति' पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्करूपविशेषणत्रयोपेतं द्वितीयं शुक्लध्यानं 'उदाहृतं' कथितम्, 'तस्मिन्' द्वितीये शुक्लध्याने वर्तमानो ध्यानी - "ध्यानात् समरसीभाव-स्तदेकीकरणं मतं / आत्मा यदपृथक्त्वेन, लीयते परमात्मनि // 1 // " ( ) तं 'समरसीभावं' 'धत्ते' धारयति, कुतः ? 'स्वात्मानुभूतितः' स्वस्याऽऽत्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्ततः // 79 // अथ क्षीणमोहगुणस्थानाद्धाऽवसाने यत्करोति, तदाह - इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः / निद्राप्रचलयो श-मुपान्त्ये कुरुते क्षणे // 80 // व्याख्या - इत्येतत्पूर्वोक्तध्यानयोगेन द्वितीयशुक्लध्यानसमायोगेन 'प्लुष्यत्कर्मेन्धनोत्करो' दह्यमानकर्मसमिदुत्करो योगीन्द्रः 'उपान्त्ये' अन्त्यसमीपसमये 'निद्राप्रचलयोः' 'नाशं' करोति क्षयं 'कुरुते' // 80 // अथान्त्यसमये यत्करोति, तदाह -