________________ शुक्लध्यानस्य द्वितीयांशः 121 निजात्मद्रव्यं एकं केवलं स्वकीयविशुद्धपरमात्मद्रव्यम्, 'वा' अथवा तस्यैव परमात्मद्रव्यस्य एकं के वलं 'पर्यायम्', वा 'अथवा' एकमद्वितीयं 'गुणं' वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवंविधमेकं द्रव्यमेकं गुणं वा एकं पर्यायं वा, 'निश्चलं' चलनवर्जितं 'यत्र' ध्यायते तदेकत्वमिति // 76 / / अथाविचारत्वमाह - यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् / चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदः // 77 // व्याख्या - सम्प्रति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात्, यदाहुः श्रीहेमचन्द्रसूरिपादाः - "१अनविच्छित्त्याऽऽम्नायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः / दुष्करमप्याधुनिकैः, शुक्लध्यानं यथाशास्त्रम् // 896 // " (योगशास्त्रानाश्लोक:) तैः ‘सद्ध्यानकोविदैः' = शास्त्राम्नायावगतशुक्लध्यानरहस्यैस्तद् 'अविचारं' अविचारविशेषणोपेतं द्वितीयं शुक्लं ‘स्मृतं' = प्रज्ञप्तम्, तत् किम् ? यत्पूर्वोक्तस्वरूपेषु 'व्यञ्जनार्थयोगेषु' शब्दाभिधेययोगरूपेषु 'परावर्त्तविवर्जितं' शब्दाच्छब्दान्तरमित्यादिसङ्क्रमेण रहितं 'चिन्तनं' श्रुतानुसारादेव क्रियते तदविचारमिति // 77 / / अथ सवितर्कत्वमाह - निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् / चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते // 78 // 1. योगशास्त्रान्तरश्लोके तु 'अनवच्छित्त्या....' इति पाठः /