________________ 120 शुक्लध्यानस्य द्वितीयांशः प्रथमशुक्लध्यानरीत्याऽऽश्रयेद् भजेत्, कथम्भूतः क्षपक: ? 'वीतरागो' विशेषेण इतो गतो रागो यस्मात्स तथा, पुनरपि कथम्भूतः ? 'महायतिः' महांश्चासौ यतिश्च महायतिः, यथाख्यातचारित्र इति / पुनः कथम्भूतः ? 'भावसंयुक्तो' विशुद्धतरभावोपेतः, एवंविधः क्षपको 'द्वितीयं' शुक्लध्यानं श्रयेदित्यर्थः // 74 / / अथ तदेव शुक्लध्यानं सनामविशेषणमाह - अपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् / स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् // 5 // व्याख्या - 'स' क्षपकः क्षीणमोहगुणस्थानवर्ती द्वितीयं शुक्लध्यानं 'एकयोगेन' एकतरयोगेन सन्ध्यायति, यदाह - “एकत्रियोगभाजामाद्यं, स्यादपरमेकयोगवताम् / तनुयोगिनां तृतीयं, निर्योगाणां चतुर्थं तु // 902 // " (योगशास्त्रम्) कथम्भूतम् ? 'अपृथक्त्वं' पृथक्त्ववर्जितम्, 'अवीचारं' विचाररहितम्, 'सवितर्कगुणान्वितम्' वितर्कमात्रगुणोपेतम्, द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः / / 75 // अथापृथक्त्वमेव व्यक्तमाह - निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् / निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः // 76 // व्याख्या - 'बुधा' ज्ञाततत्त्वाः 'तदेकत्वम्' अपृथक्त्वं 'विदुः' अवधारयन्ति स्म = कथयन्ति स्म, तत् किम् ? - ध्यायकेन यद् 1. योगशास्त्रे तु ...योगानाम्' इति पाठः /