________________ क्षपकस्य द्वादशगुणस्थानम् 119 तथा सूक्ष्मसम्परायस्थो जीवः पुंवेदसज्वलनचतुष्कबन्धव्यवच्छेदाद् कर्मप्रकृतीनां सप्तदशकस्य बन्धकः, त्रिवेदत्रिसञ्चलनोदयव्यवच्छेदात्षष्टेर्वेदयिता, मायासत्ताव्यवच्छेदात् ढ्युत्तरशतसत्ताको भवति // 72 // // इति क्षपकस्य दशमम् // अथ क्षपकस्यैकादशं गुणस्थानं न भवतीत्याह - एकादशं गुणस्थानं, क्षपकस्य न सम्भवेत् / किन्तु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् // 73 // व्याख्या - 'क्षपकस्यैकादशं गुणस्थानकं' 'न' नैव भवेत्, 'किन्तु' दशमादेव गुणस्थानात्क्षपकः 'सूक्ष्मलोभांशान्' सूक्ष्मीकृतलोभखण्डान् ‘क्षपयन्' सन् 'द्वादशं' क्षीणमोहाख्यं गुणस्थानं 'व्रजेद्' गच्छेदिति, अत्र क्षपकश्रेणी च समर्थयति, तत्क्रमश्चायम् - "अणमिच्छमीससम्मं, अट्ठनपुंसित्थिवेअछक्कं च / पुंवेयं च खवेइ, कोहाईए अ संजलणे // 1 // " (प्रवचनसारोद्धारः 694, विचारसार: 365, पदार्थस्थापनासङ्ग्रहः _57 / / 73 / / [ छाया - अनमिथ्यात्वमिश्रसम्यक्त्वानि, अष्टनपुंसकस्त्रीवेदषट्कं च / पुंवेदं च क्षपयति, क्रोधादिकान् च सज्वलनान् // 1 // ] अथ तत्र शुक्लध्यानस्य द्वितीयांशाश्रयणमाह - भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः / पूर्ववद् भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् // 74 // व्याख्या - 'अथ' चानन्तरं स क्षपकः 'क्षीणमोहात्मा भूत्वा' क्षीणमोहगुणस्थानाद्धापरिणतिमयो भूत्वा 'द्वितीयं' शुक्लध्यानं 'पूर्ववत्'