________________ 118 क्षपकस्य दशमगुणस्थानम् 'स्त्यानगृद्ध्यादिकत्रयं' निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिरिति त्रिकम्, 'स्थावरत्वं' स्थावरनामकर्मेति षोडश कर्मप्रकृतयोऽनिवृत्तिगुणस्थानस्य प्रथमे भागे क्षीयन्ते // 69 // तथाऽष्टौ मध्यकषाया = अप्रत्याख्यानप्रत्याख्यानलक्षणा 'द्वितीये' भागे क्षीयन्ते, तृतीये भागे 'षण्ढत्वं' नपुंसकत्वं क्षीयते, 'तुर्यके' चतुर्थके भागे 'स्त्रीत्वं' स्त्रीवेदः क्षीयते, ‘पञ्चमे' भागे हास्यरत्यरतिभयशोकजुगुप्सेतिषट्कं च क्षीयते // 70 // ___ शेषेषु' 'चतुर्वंशेषु' षष्ठादिनवमान्त्येषु ‘क्रमेणैव' 'अतिशुद्धितो' ध्यानस्यातिनैर्मल्यतः पुंवेदः सञ्चलनक्रोधो मानो माया च नश्यति, अयमर्थः - षष्ठे भागे पुंवेदः क्षीयते, सप्तमे भागे सञ्चलनक्रोधः क्षीयते, अष्टमे भागे सञ्चलनमान: क्षीयते, नवमे भागे सञ्चलनमाया च क्षीयते / तथा चानिवृत्तिगुणस्थानस्थो जीवो हास्यरतिभयजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः, हास्यषट्कोदयव्यवच्छेदात् षट्षष्टेर्वेदयिता, नवमांशे मानान्तं पञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् व्युत्तरशतसत्ताको भवति // 71 / / // इति क्षपकस्य नवमम् // अथ क्षपकस्य दशमगुणस्थानमाह - ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् / आरोहति मुनिः सूक्ष्म-सम्परायं गुणास्पदम् // 72 // व्याख्या - 'ततो' नवमगुणस्थानादनन्तरं 'असौ' क्षपको 'मुनिः' 'सूक्ष्मसम्परायं गुणास्पदं' सूक्ष्मसम्परायनामकं गुणस्थानमारोहति, किं कुर्वन् ? 'क्षणात्' क्षणमात्रात् ‘स्थूललोभस्य' स्थूलरूपस्य सज्वलनलोभस्य 'सूक्ष्मत्वं' सूक्ष्माणुरूपत्वं 'प्रापयन्' /