________________ 117 क्षपकस्याऽनिवृत्तिगुणस्थानम् अनिवृत्तिगुणस्थानं, ततः समधिगच्छति / गुणस्थानस्य तस्यैव, भागेषु नवसु क्रमात् // 67 // गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके / साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् // 68 // एकेन्द्रियत्वमातप-स्त्यानगृद्ध्यादिकत्रयम् / स्थावरत्वमिहाद्यांशे, क्षीयन्ते षोडशेत्यमूः // 69 // अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीयके। षण्ढत्वं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे // 70 // चतुवंशेषु शेषेषु, क्रमेणैवातिशुद्धितः। पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति // 71 // ॥पञ्चभिः कुलकम् // व्याख्या - 'ततः' तस्मादष्टमगुणस्थानादनन्तरं क्षपकोऽनिवृत्तिगुणस्थानं नवमं समारोहति = समधिगच्छति, ततस्तस्यैव 'गुणस्थानस्य नवसु भागेषु' कृतेषु आयेंऽशे' = प्रथमे भागे 'इत्यमूः' इत्येताः 'षोडश' कर्मप्रकृतयः 'क्षीयन्ते' // 67 // इत्यमूः काः ? 'श्वाभ्री गतिः' नरकगतिः, 'तैरश्ची' तिर्यग्गतिः, तयोर्नरकतिरश्चोर्द्व आनुपूर्विके नरकानुपूर्वी तिर्यगानुपूर्वी चेति 'साधारणत्वं' साधारणनाम 'उद्योतं' उद्योतनाम ‘सूक्ष्मत्वं' सूक्ष्मनाम 'विकलत्रयं' द्वित्रिचतुरिन्द्रियजातिलक्षणम् // 68 // 'एकेन्द्रियत्वं' एके न्द्रियजातिरूपम्, '३आतपं' आतपनाम, 1. मूले तु 'आद्यांशे' इति पाठः। 2. अयं पाठोऽशुद्धो भाति, मूले तु ‘उद्योतः' इति पाठः / स शुद्धः / 3. अयं पाठोऽशुद्धो भाति, मूले तु आतपः' इति पाठः / स शुद्धः /