________________ 136 अयोगिन उपान्त्यसमयकृत्यम् 'न विरुध्यते' न विरोधमाप्नोति, कस्य ? अयोगिगुणस्थानवर्तिनो भगवतः परमेष्ठिनः, कथम्भूतस्य ? 'निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः' स्वकीयनिर्मलपरमात्मचिद्रूपतन्मयत्वोत्पन्ननिर्भरपरमानन्दविराजमानस्येति // 109 // अथ ध्यानस्य निश्चयव्यवहारत्वमाह - आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः / उपचारस्तदन्यो हि, व्यवहारनयाश्रितः // 110 // व्याख्या - 'तत्त्वतो' निश्चयनयादात्मैव ध्याता 'आत्मनैव' करणभूतेन कृत्वा 'आत्मानमेव' कर्मतापन्नं 'ध्यायति', 'हि' स्फुटं 'तदन्यो' यः कश्चिदुपचारोऽष्टाङ्गयोगप्रवृत्तिलक्षणः, स सकलोऽपि 'व्यवहारनयाश्रितो' ज्ञेयः // 110 / / अथायोगिन एवोपान्त्यसमयकृत्यमाह - चिद्रूपात्ममयोऽयोगी, ह्युपान्त्यसमये द्रुतम् / युगपत् क्षपयेत्कर्म-प्रकृतीनां द्विसप्ततिम् // 111 // व्याख्या - ‘चिद्रूपात्ममयः' के वलाऽऽत्ममयः ‘अयोगी' अयोगिगुणस्थानवर्ती 'हि' स्फुटमुपान्त्यसमये 'द्रुतं' शीघ्रं 'युगपत्' समकालं 'कर्मप्रकृतीनां द्विसप्ततिं क्षपयेत्' क्षयं प्रापयेदिति // 111 / / अथ ता द्विसप्ततिकर्मप्रकृतीर्नामतः श्लोकपञ्चकेनाह - देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च / अङ्गोपाङ्गत्रयं चैव, षट्कं संस्थानसञ्ज्ञकम् // 112 // वर्णाः पञ्च रसाः पञ्च, षट्कं संहननात्मकम् / स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् // 113 //