________________ 114 आद्यं शुक्लध्यानम् अन्यच्च - "ॐकाराभ्यसनं विचित्रकरणैः प्राणस्य वायोर्जयात्, तेजश्चिन्तनमात्मकायकमले शून्याम्बरालम्बनम् / त्यक्त्वा सर्वमिदं कलेवरगतं चिन्तामनोविभ्रमम्, तत्त्वं पश्यत जल्पकल्पनकलातीतं स्वभावस्थितम् // 1 // " ( ) // 59 // अथाद्यशुक्लध्यानस्य नामाऽऽह - सवितर्क सविचारं, सपृथक्त्वमुदाहृतम् / त्रियोगयोगिनः साधो-राद्यं शुक्लं सुनिर्मलम् // 60 // व्याख्या - 'त्रियोगयोगिनः साधोः' मनोवच:काययोगवतो मुनेः 'आद्यं' प्रथमं शुक्लध्यानम् ‘उदाहृतं प्रोक्तम्, तत्कथम्भूतम् ? सह वितर्केण वर्त्तत इति ‘सवितर्कम्', सह विचारेण वर्त्तते इति ‘सविचारम्', सह पृथक्त्वेन वर्त्तते इति ‘सपृथक्त्वम्', इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति // 60 // अथ तद्विशेषणत्रयस्य स्वरूपमाह - श्रुतचिन्ता वितर्कः स्यात्, विचार: सङ्क्रमो मतः / पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् // 61 // व्याख्या - एतत्प्रथमं शुक्लध्यानं 'त्रयात्मकम्', क्रमोत्क्रमगृहीतविशेषणत्रयरूपम्, तत्र श्रुतचिन्तारूपो ‘वितर्कः', अर्थशब्दयोगान्तरेषु 'सङ्क्रमो विचारः', द्रव्यगुणपर्यायादिभिरन्यत्वं 'पृथक्त्वम्' // 61 // अर्थतत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह