________________ भावस्यैव प्राधान्यम् 113 तत 'इत्येवं' अमुना पूर्वोक्तप्रकारेण पूरकरेचककुम्भकक्रमेण 'गन्धवाहानां' पवनानां 'आकुञ्चनविनिर्गमौ संसाध्य' वातानां सङ्ग्रहमोक्षावभ्यस्य 'चित्तं' मनः 'एकाग्रचिन्तने' समाधिविषये 'निश्चलं धत्ते', मरुज्जये हि मनोनिश्चलता स्यादेव, यदाह - "प्रचलति यदि क्षोणीचक्रं चलन्त्यचला अपि, प्रलयपवनप्रेवालोलाश्चलन्ति पयोधयः / पवनजयिनः सावष्टम्भप्रकाशितशक्तयः, स्थिरपरिणतेरात्मध्यानाच्चलन्ति न योगिनः // 1 // " ( ) // 58 / / अथ भावस्यैव प्राधान्यमाह - प्राणायामक्रमप्रौढि-रत्र रूढ्यैव दर्शिता / क्षपकस्य यतः श्रेण्या-रोहे भावो हि कारणम् // 59 // व्याख्या - 'अत्र' 'श्रेण्यारोहे' = क्षपकश्रेण्यारोहविषये 'प्राणायामक्रमप्रौढिः' पवनाभ्यासक्रमप्रगल्भता ‘रूढ्यैव' प्रसिद्धिमात्रतयैव 'दर्शिता', 'यतः' यस्मात्कारणात् 'हि' स्फुटं क्षपकस्य भाव एव केवलोद्गमकारणम्, न तु प्राणायामादिडम्बरः, यदुक्तं चर्पटिनाऽपि - "नासाकन्दं नाडीवृन्दं, वायोश्चार: प्रत्याहारः / प्राणायामो बीजग्रामो, ध्यानाभ्यासो मन्त्रन्यासः // 1 // हृत्पद्मस्थं भ्रूमध्यस्थं, नासाप्रस्थं श्वासान्तःस्थम् / तेजःशुद्धं ध्यानं बुद्धं, ॐकाराख्यं सूर्यप्रख्यम् // 2 // ब्रह्माकाशं शून्याभासं, मिथ्याजल्पं चिन्ताकल्पम् / कायाक्रान्तं चित्तभ्रान्तं, त्यक्त्वा सर्वं मिथ्यागर्वम् // 3 // गुर्वादिष्टं चिन्तोत्सृष्टं, देहातीतं भावोपेतम् / त्यक्तद्वन्द्वं नित्यानन्दं, शुद्धं तत्त्वं जानीहि त्वम् // 4 // " ( )