________________ 112 कुम्भकध्यानम् "वज्रासनस्थिरवपुः स्थिरधीः, स्वचित्तमारोप्य रेचकसमीरणजन्मचक्रे / स्वान्तेन रेचयति नाडिगतं समीरं, तत्कर्म रेचकमिति प्रतिपत्तिमेति // 1 // " ( ) // 56 // अथ कुम्भकध्यानमाह - कुम्भवत्कुम्भकं योगी, श्वसनं नाभिपङ्कजे / कुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् // 57 // व्याख्या - 'योगी' 'कुम्भकं' कुम्भकाख्यं 'श्वसनं' पवनं 'नाभिपङ्कजे' नाभिकमले 'कुम्भकध्यानयोगेन' कुम्भककर्मप्रयोगेण 'कुम्भवद्' घटवद् = घटाकारं कृत्वा सुतरां स्थिरं 'कुरुते', यदाह - "चेतसि श्रयति कुम्भकचक्रं, नाडिकासु निबिडीकृतवातः / कुम्भवत्तरति यज्जलमध्ये, तद्वदन्ति किल कुम्भककर्म // 1 // " ( ) // 57|| अथ पवनजयेन मनोजयमाह - इत्येवं गन्धवाहाना-माकुञ्चनविनिर्गमौ / संसाध्य निश्चलं धत्ते, चित्तमेकाग्रचिन्तने // 58 // व्याख्या - यत्र मनस्तत्र पवनो, यत्र पवनस्तत्र मनो वर्तते, यदाह"दुग्धाम्बुवत्सम्मिलितौ सदैव, तुल्यक्रियौ मानसमारुतौ हि / यावन्मनस्तत्र मरुत्प्रवृत्तिर्यावन्मरुत्तत्र मनःप्रवृत्तिः // 1 // तत्रैकनाशादपरस्य नाश, एकप्रवृत्तेरपरप्रवृत्तिः / विध्वस्तयोरिन्द्रियवर्गशुद्धि-स्तद्ध्वंसनान्मोक्षपदस्य सिद्धिः // 2 // " ( ) इति।